SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ सू. ८-१-२६८ ] स्वोपज्ञवृत्तिसहितम् श-पोः सः ॥ ८॥१॥ २६० । शकारषकारयोः सो भवति ॥ श । सद्दो । कुसो । निसंसो । वंसो । सामा। सुद्धं । दस । सोहइ । विसइ ॥ ष । सण्डो । निहसो । कसाओ । घोसइ । उभयोरपि । सेसो । विसेसो ॥ २६० ॥ स्नुषायां व्हो न वा ॥ ८।१।२६१ ॥ स्नुषाशब्दे षस्य ग्रहः णकाराकान्तो हो वा भवति ॥ सुहा सुसा ॥ २६१॥ दश-पाषाणे हः॥ ८॥१॥२६२ ॥ दशन्शब्दे पाषाणशब्दे च शषोर्यथादर्शनं हो वा भवति ॥ दहमुहो दस-मुहो । दहबलो दस-बलो। दह-रहो दस-रहो । दह दस । एआरह बारह । तेरह । पाहाणो पासाणो ॥ २६२॥ दिवसे सः ॥ ८।१।२६३ ॥ दिवसे सस्य हो वा भवति ॥ दिवहो । दिवसो ॥ २६३ ॥ हो घोऽनुस्वारात् !! ८।१।२६४ ॥ अनुस्वरात्परस्य हस्य घो वा भवति ॥ सिंघो । सीहो ॥ संघारो । संहारो । क्वचिदननुस्वारादपि । दाहः । दाघो ॥ २६४ ॥ षट्-शमी-शाव-सुधा-सप्तपर्णेष्वादेश्छः ॥ ८।१।२६५। एषु आदेर्वर्णस्य छो भवति ॥ छट्ठो । छट्ठी । छप्पओ । छंमुहो । छमी । छावो । छुवो । छुहा । छत्तिवण्णो ।। २६५ ।।। शिरायां वा ॥ ८॥१॥२६६ ॥ शिराशब्दे आदेश्छो वा भवति ॥ छिरा शिरा ॥ २६६॥ लुग भाजन-दनुज-राजकुले जः सस्त्ररस्य न वा ॥ ८।१।२६७ ॥ एषु सस्वरजकारस्य लुग् वा भवति ॥ भाणं । भायणं । दणु-वहो । दणुअ-वहो । रा-उलं । राय-उलं ॥ २६७ ॥ व्याकरण-प्राकारागते कगोः ॥ ८।१।२६८॥ ____ एषु को गश्च सस्वरस्य लुग् वा भवति ॥ वारणं वायरगं । पारो पायारो ॥ आओ आगओ ॥ २६८॥
SR No.010651
Book TitlePrakrit Vyakaranam
Original Sutra AuthorHemchandracharya
AuthorParshuram Sharma
PublisherMotilal Laghaji
Publication Year
Total Pages343
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy