SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ सू. ८-१-२१७] स्वोपज्ञवृत्तिसहितम् सातौ रः ॥ ८ । १। २१० ॥ सप्ततौ तस्य रो भवति ॥ सत्तरी ॥ २१० ॥ अतसी-सातवाहने लः ॥८।१ । २११॥ अनयोस्तस्य लो भवति ॥ अलसी । सालाहणो । सालवाहणो । सालाहणी भासा ॥ २११॥ पलिते वा ॥ ८ ।१। २१२ ॥ पलिते तस्य लो वा भवति ॥ पलिलं । पलिअं॥ २१२ ॥ पीते वो ले वा ॥ ८ ॥१॥ २१३ ॥ पीते तस्य वो वा भवति स्वार्थलकारे परे ॥ पीवलं । पीअलं ॥ ल इति किम् । पीअं ॥ २१३ ॥ वितस्ति-वसति-भरत-कातर-मातुलिङ्गे हः ॥ ८॥११२१४ ॥ ___ एषु तस्य हो भवति ॥ विहत्थी । वसही ॥ बहुलाधिकारात् क्वचिन्न भवति । वसई । भरहो । काहलो । माहुलिङ्गं । मातुलुङ्गशब्दस्य तु माउलुङ्गं ॥ २१४ ॥ मेथि-शिथिर-शिथिल-प्रथमे थस्य ढः ॥८।१।२१५ ॥ एषु थस्य ढो भवति । हापवादः ॥ मेढी । सिढिलो । सिढिलो । पढमो ॥ २१५॥ निशीथ-पृथिव्योर्वा ॥८२१६॥ अनयोस्थस्य ढो वा भवति ॥ निसीढो । निसीहो । पुढवी । पुहवी ॥ २१६ ॥ दशन-दष्ट--इग्ध-दोला-इण्ड-दर-दाह-दम्भ-दर्भ-कदन-दोहदे दो वा डः ॥ ८॥१॥२१७ ॥ एषु दस्य डो वा भवति ॥ डसणं दसणं । डट्ठो दह्रो । डड्डो दड्डो । डोला दोला । डण्डो दण्डो। डरो दरो । डाहो दाहो । डम्भो दम्भो । ढब्भो दब्भो । कडणं कयणं । डोहलो दोहलो ॥ दरशब्दस्य च भयार्थवृत्तेरेव भवति । अन्यत्र दर-दलिअ ॥ २१७ ॥ प्रा...३
SR No.010651
Book TitlePrakrit Vyakaranam
Original Sutra AuthorHemchandracharya
AuthorParshuram Sharma
PublisherMotilal Laghaji
Publication Year
Total Pages343
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy