SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ ३० प्राकृतव्याकरणम् पृथक धो वा ॥ ८।१।१८८ ॥ पृथक्शब्दे थस्य धो वा भवति ॥ पिधं पुधं । पिहं हं ॥ १८८ ॥ शृङ्खले खः कः || ८|१|१८९ ॥ शृङ्खले खस्त्र को भवति ॥ सङ्कलं ॥ १८९ ॥ पुन्नाग- भागिन्यो मः ॥ ८।१।१९० ॥ अनयोर्गस्य मो भवति ॥ पुन्नामा वसन्ते । भाभिणी ॥ १९० ॥ छागे लः || ८|१|१९१ ॥ 1 छागे गस्य लो भवति ॥ छालो । छाली ॥ १९१ ॥ [ सू. ८-१-१८८ ऊत्वे दुर्भग-सुभगे वः || ८।१।१९२ ॥ अनयोरूत्वे गस्य वो भवति ॥ दूहवो । सूहवो ॥ ऊच इति किम् । दुहओ | सुहओ || १९२ ॥ खचित-पिशाचयोश्चः स लौवा || ८ |१| १९३ ॥ अनयोश्चस्य यथासंख्यं स ल्ल इत्यादेशौ वा भवतः ॥ खसिओ खइओ । पिसल्लो पिसाओ ।। १९३ ॥ जटिले जो झो वा ॥ ८।१।१९४॥ 'जटिले जस्य झो वा भवति ॥ झडिलो जडिलो ॥ १९४ ॥ टो डः || ८।१।१९५ ॥ स्वरात्परस्यासं युक्तानादेष्टस्य डो भवति ।। नडो । भडो घडो ॥ घडइ || स्वरादित्येव । घंटा || असंयुक्तस्येत्येव । खट्टा । अनादेरित्येव । टक्को ॥ क्वचिन्न भवति । अटति । अटइ ॥ १९५ ॥ सटा - शकट - कैट ढः ॥। ८ । १ । १९६ ॥ . एषु टस्य ढो भवति ॥ सढा । सयढो । केढवो ॥ १९६ ॥ स्फटिके लः ॥ ८ । १ । १९७ ॥ स्फटिके टस्य लो भवति ॥ फलिहो ॥ १९७ ॥ चपेटा - पाटौ वा ॥ ८ । १ । १९८ ॥ चपेटाशब्दे ण्यन्ते च पटिधातौ टस्य लो वा भवति ॥ चविला चविढा । फालेइ फाडेइ ॥ १९८ ॥
SR No.010651
Book TitlePrakrit Vyakaranam
Original Sutra AuthorHemchandracharya
AuthorParshuram Sharma
PublisherMotilal Laghaji
Publication Year
Total Pages343
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy