SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ प्राकृतव्याकरणम् [सू. ८-१-१०४ तीर्थे हे ॥ ८।१।१०४॥ तीर्थशब्दे हे सति ईत ऊत्वं भवति ॥ तूहं ॥ ह इति किम् । तित्थं ॥ १०४ ॥ एत्पीयूषापीड-बिभीतक-कीदृशेदृशे ॥ ८।१।१०५॥ एषु ईत एत्वं भवति ॥ पेऊसं । आमेलो । बहेडओ। केरिसो । एरिसो ॥ १०५॥ नीड-पीठे वा ॥ ८।१।१०६ ॥ अनयोरीत एत्वं वा भवति ॥ नेडं नीडं । पेढं पीढं ॥ १०६ ॥ उतो मुकुलादिवत् ॥ ८।१।१०७ ॥ मुकुल इत्येवमादिषु शब्देषु आदेरुतोत्वं भवति ॥ मउलं । मउलो । मउरं । मउडं । अगरुं । गर्लई । जहुढिलो । जहिट्ठिलो । सोअमल्लं । गलोई ॥ मुकुल । मुकुर । मुकुट । अगुरु । गुर्वी । युधिष्ठिर । सौकुमार्य । गुडूची । इति मुकुलादयः॥ क्वचिदाकारोपि । विद्रुतः । विदाओ ॥१०७॥ वोपरौ ॥ ८।१।१०८ ॥ उपरावुतोद् वा भवति ॥ अवरिं । उवरिं ॥ १०८ ॥ . गुरौ के वा ॥ ८।१।१०९॥ गुरौ स्वार्थे के सति आदेरुतोद् वा भवति ॥ गरुओ गुरुओ ॥ क इति किम् । गुरू ॥ १०९॥ (कुटौ ॥ ८।१।११० ॥ भृकुटावादेरुत इर्भवति ॥ भिउडी ॥ ११० ॥ पुरुषे रोः ॥ ८।१।१११ ॥ पुरुषशब्दे रोरुत इर्भवति ॥ पुरिसो । पउरिसं ॥ १११ ॥ ई: क्षुते ॥ ८।१।११२ ॥ क्षुतशब्दे आदेरुत ईत्वं भवति ॥ छीअं ॥ ११२ ॥ उत्सुभग-मुसले वा ॥ ८।१।११३ ॥ अनयोरादेरुत ऊद् वा भवति ॥ सूहवो सुहओ। मूसलं मुसलं ॥११३॥
SR No.010651
Book TitlePrakrit Vyakaranam
Original Sutra AuthorHemchandracharya
AuthorParshuram Sharma
PublisherMotilal Laghaji
Publication Year
Total Pages343
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy