SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ प्राकृतव्याकरणम् [सू. ८-१-५९ ब्रह्मचय चः ॥८।१ । ५९ ॥ ब्रह्मचर्यशब्दे चस्य अत एत्वं भवति ॥ बह्मचेरं ॥ ५९ ॥ तोन्तरि ॥८।१। ६०॥ अन्तरशब्दे तम्य अत एत्वं भवति ॥ अन्तःपुरम् । अन्तेउरं ॥ अन्तश्यारी । अन्तेआरी ॥ क्वचिन्न भवति । अन्तग्गय । अन्तो-वीसम्भनिवेसिआणं ॥ ६० ॥ ओत्पझे ॥८।१।६१॥ पद्मशब्दे आदेरत ओत्वं भवति ॥ पोम्मं ॥ 'पद्मछम०' [८-२-२१२] इति विश्लेषे न भवति । पउमं ॥ ६१ ॥ नमस्कार-परस्परे द्वितीयस्य ।। ८ । १। ६२ ॥ अनयोर्द्वितीयस्य अत ओत्वं भवति ॥ नमोकारो । परोप्परं ॥ ६२ ॥ वा? ॥ ८।१ । ६३॥ अर्पयतौ धातौ आदेरस्य ओत्वं वा भवति ॥ ओप्पेइ अप्पेइ । ओप्पिसं आप्पिरं ॥ ६३ ॥ स्वपावुच्च ॥८।१।६४॥ स्वपितौ धातौ आदेरस्य ओत् उत् च भवति ॥ सोवइ । सुवइ ॥ ६४ ॥ नात्पुनर्यादाइ वा ॥ ८।१।६५ ॥ __नञः परे पुनःशब्दे आदेरस्य आ आई इत्यादेशौ वा भवतः ॥ न उण न उणाइ । पक्षे । न उण । न उणो । केवलस्यापि दृश्यते ।। पुणाइ ॥६५॥ वालाब्बरण्ये लुक् ॥ ८।१।६६ ॥ अलाब्वरण्यशब्दयोरादेरस्य लुग् वा भवति । लाउं अलाउं । लाऊ अलाऊ । रणं अरण्णं । अत इत्येव । आरण्ण-कुञ्जरो व्व वेल्लंतो ॥६६॥ वाव्ययोत्खातादावदातः ॥ ८॥ १। ६७ ॥ अव्ययेषु उत्खातादिषु च शब्देषु आदेराकारस्य अद् वा भवति ॥
SR No.010651
Book TitlePrakrit Vyakaranam
Original Sutra AuthorHemchandracharya
AuthorParshuram Sharma
PublisherMotilal Laghaji
Publication Year
Total Pages343
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy