SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ सू. ८–३–१६९ ] स्वोपज्ञवृत्तिसहितम् १०१ हुवीअ । अभूत् । अभवत् । बभूवेत्यर्थः ॥ एवं अच्छीअ । आसिष्ट । आस्त । आसांचक्रे वा ॥ गेण्हीअ । अग्रहीत् । अगृण्हात् । जग्राह वा ॥ १६३ ॥ तेनास्तेरास्यसी || ८ | ३ । १६४ ॥ अस्तेर्धातोस्तेन भूतार्थेन प्रत्ययेन सह आसि अहेसि इत्यादेशौ भवतः ॥ आसि सो तुम अहं वा । जे आसि । ये आसन्नित्यर्थः । एवं अहेसि ॥ १६४॥ ज्जात्सप्तम्या इव ।। ८ । ३ । १६५ ।। सप्तम्यादेशात् ज्जात्पर इव प्रयोक्तव्यः ॥ भवेत् । होज्जइ । होज्ज ॥ १६५ ॥ भविष्यति हिरादिः ॥ ८ । ३ । १६६ ॥ भविष्यदर्थे विहिते प्रत्यये परे तस्यैवादिर्हिः प्रयोक्तव्यः ॥ होहि । भविष्यति भविता वेत्यर्थः ॥ एवं होहिन्ति । होहिसि । होहित्था । हसिहि । काहि ॥ १६६॥ मि - मो- मु- मेस्सा हा न वा ।। ८ । ३ । १६७ ॥ भविष्यत्यर्थे मिमोमुमेषु तृतीयत्रिकादेशेषु परेषु तेषामेवादी स्सा हा -इत्येतौ वा प्रयोक्तव्यौ । हेरपवादौ ॥ पक्षे हिरपि ॥ होस्सामि होहामि । होस्सामो होहामो । होस्सामु होहामु । होस्साम होहा || पक्षे | होहिमि । होहिमो । होहिमु । होहिम || क्वचित्तु हा न भवति । हसिस्सामो । -हसिहिमो ॥ १६७ ॥ I मो - मु-मानां हिस्सा हित्था ।। ८ । ३ । १६८ ।। धातोः परौ भविष्यति काले मोमुमानां स्थाने हिस्सा हित्था इत्येतौ वा प्रयोक्तव्यौ || होहिस्सा । होहित्था । हसिहिस्सा । हसिहित्था । पक्षे । होहो । होस्समो । होहामो । इत्यादि ॥ १६८ ॥ मेः स्सं । ८ । ३ । १६९ ॥ धातोः परो भविष्यति काले म्यादेशस्य स्थाने स्सं वा प्रयोक्तव्यः ॥ होस्सं । हसिस्सं । कित्तइस्सं । पक्षे । होहिमि । होस्सामि । होहामि । कित्तइहिमि ॥ १६९ ॥
SR No.010651
Book TitlePrakrit Vyakaranam
Original Sutra AuthorHemchandracharya
AuthorParshuram Sharma
PublisherMotilal Laghaji
Publication Year
Total Pages343
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy