SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ '. सङ्घपतिचरितापरनामकं [प्रथमः प्रथम सझमाहात्म्यम् व्याप्ताशेपहरिचतुर्मुखतया तन्वन्नदीनां स्थिति, स स्तुत्यः पुरुषोत्तमैकवसतिः श्रीसकरत्नाकरः । य संसेव्य घनाघना इव जिना धारालधर्मामृतैविश्वाश्वासनहेतवः कति न तेऽभूवन भविष्यन्ति वा? ॥१५॥ वस्तुपालमाहात्म्यम् गुर्वाशीर्वचसां फलं निरवधि श्रीसिद्धिसिद्धौषधिः, कीर्तिस्फूर्तिसुधासुधांशुरुदयद्दीप्रप्रभाभास्करः । मूर्तः पुण्यसमुच्चयो विजयते कोऽप्येप सङ्घाधिपः, शङ्के यस्य विभात्यखण्डविभुतापाखण्डमाखण्डल: प्रस्तुतग्रन्थस्याभिधानम् सङ्घपतिचरितमेतत्, कृतिनः कर्णावतंसतां नयत । श्रीवस्तुपालधर्माभ्युदयमहोमहितमाहात्म्यम् . वस्तुपालवंशवर्णनम् श्रीमत्प्राग्वाटगोत्रेऽणहिलपुरभुवश्चण्डपस्याङ्गजन्मा, जशे चण्डप्रसादः सदनमुरुधियामङ्गभूस्तस्य सोमः । आसाराजोऽस्य सूनुः किल नवममृतं कालकूटोपभुक्त___ श्रीकश्रीकण्ठकण्ठस्थलमलविपदुच्छेदकं यद्यशोऽभूत् ॥ १८ ॥ सोऽयं कुमारदेवीकुक्षिसरस्सरसिजं श्रियः सदनम् । श्रीवस्तुपालसचिवोऽजनि तनयस्तस्य जनितनयः । यस्याग्रजो मल्लदेव, उतथ्य इव वाक्पतेः। उपेन्द्र इव चेन्द्रस्य, तेजःपालोऽनुजः पुनः ॥ २० ॥ . चौलुक्यचन्द्रलवणप्रसादकुलधवलवीरधवलस्य । यो दधे राज्यधुरामेकधुरीणं विधाय निजमनुजम् ॥ २१ ॥ '१ विंशतितमश्लोकानन्तरं पाता० पुस्तकेऽधोनिष्टशितः श्लोकोऽधिक उपलभ्यते . वस्त्रापथस्य पन्थास्तपस्विनां ग्रामशासनोद्धारांत् । । येनापनीय नवकरमनवकरः कारयाश्चक्रे ॥ __ . . पद्यमिदं किल पञ्चदशसर्गान्तर्वरीवृत्यते सर्वासु प्रतिषु ॥ ..
SR No.010638
Book TitleDharmabhyudaya Mahakavya
Original Sutra AuthorN/A
AuthorChaturvijay, Punyavijay
PublisherBharatiya Vidya Bhavan
Publication Year1949
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy