________________
१७८/
सङ्घपतिचरितापरनामकं :
[चतुर्दशा . वर्षान्ते, निर्ययौ.. विष्णुर्ग्रहाद् भानुरिवाम्बुदात् । . . . . .!: अपृच्छद् वीरकं धीरः, किं कृशोऽसीति नीतिमान् . . ॥ १७१ ॥ तद्वृत्ते कथिते द्वास्थैर्गृहे सोऽस्खलितः कृतः । वीरकेण समं जन्मे, हरिणा नेमिसन्निधौ ॥ १७२ ।। साधुधर्म जिनाधीशातू , कर्ण्यमाकर्ण्य सोऽवदत् । नास्मि श्रामण्ययोग्योऽहमस्तु मे नियमस्तु तत् ॥१७३॥ . . न निषेध्यो व्रतात् कश्चित् , कार्यः किन्तु व्रतोत्सवः ।
। सर्वस्यापि मया विष्णुरभिगृह्येत्यगाद् गृहम् ॥१७४ ॥ युग्मम् ॥
विवाह्याः स्वसुताः प्राह कृष्णस्तन्नन्तुमागताः ।। स्वामित्वमथ दास्यत्वं, भवतीभ्यो ददामि किम् ?
॥१७५ ॥ स्वामित्वं देहि नस्तात !, तामिरित्युदितो हरिः। ग्राहयामास ताः सर्वाः, प्रव्रज्यां नेमिसन्निधौ ॥ १७६ ॥
जननीशिक्षिताऽवोचत्, कन्यका केतुमञ्जरी। भविष्यामि भुजिष्याऽहं, तात! न स्वामिनी पुनः॥१७७॥ .. अन्याः कन्या ममेदृक्ष, मा वदन्निति विष्णुना । तद्विवाहधिया पृष्टो, विक्रमं वीरकः स्वयम् ॥ १७८ ॥ वीरम्मन्यस्ततो वीरः, कुविन्दोऽवोचदच्युतम् । बदरीस्थो मया ग्राव्णा, कृकलासो हतो मृतः॥ १७९ ॥ चक्रमार्गे मया वारि, वहद्वामाशिणा धृतम् । मक्षिकाः पानकुम्भान्तधृता द्वारस्थपाणिना · ॥ १८०॥ . सभासीनो द्वितीयेऽह्नि, विष्णुर्भूमीमुजोऽवदत्। वीरकस्यास्य वीरत्वं, कुलातीतं किमप्यहो।॥ १८१ ॥ येन रक्तस्फटो नागो, निवसन् बदरीवने । निजध्ने भूमिशस्त्रेण, वेमतिः क्षत्रियो ह्ययम् ॥ १८२ ॥ येन चक्रकृता गंगा, वहन्ती कलुषोदकम् । धारिता वामपादेन, वेमतिः क्षत्रियो ह्ययम् ॥ १८३ ॥ येन घोषवती सेना, वसन्ती कलशीपुरे । निरुद्धा वामहस्तेन, वेमतिः क्षत्रियो ह्ययम् ॥ १८४ ॥ इत्युक्त्वा पौरुषं स्पष्टं, क्षत्रियेषु जनार्दनः। वीरेणोद्वाहयामास, स्वकन्या केतुमञ्जरीम् ॥ १८५ ।। । वीरकस्तां गृहे नीत्वा, तस्या दास इवाभवत् । आज्ञया केशवस्याथ, तां दासीमिव चक्रिवान् ॥ १८६ ॥ . __ पराभूता तु सा विष्णुं, रुदतीदं न्यवेदयत् । '
कृष्णोऽवोचत् त्वयाऽयाचि, दास्यं स्वाम्यममोचि तत् ॥१८७ ॥ साऽवोचदधुनाऽपि त्वं, पितः! स्वाम्यं प्रयच्छ मे। इति प्रावाजयत् पुत्री, कृष्णोऽनुज्ञाप्य वीरकम् ॥१८॥ ___एकदा प्रददौ विष्णुदिशावर्तवन्दनम् । विश्वेषामपि साधूनां, मुदा तदनु वीरकः ॥ १८९ ॥ ऊँचे हरिवि, षट्याऽधिकयुद्धशतैस्त्रिभिः । न श्रान्तोऽहं तथा नाथ!, यथा वन्दनयाऽनया ॥१९० ॥. अभ्यधत्त ततः स्वामी, श्रीमन्नद्य त्वयाऽर्जिते। साक्षात् क्षायिकसम्यक्त्व-तीर्थकृन्नामकर्मणी॥ १९१ ।। सप्तम्या दुर्गतेरायुरुद्वृत्त्याद्य त्वया हरे ।। साधुवन्दनया बद्धं, तृतीय॑निरयावनौ ॥१९२ ॥ कृष्णोऽवदत् पुनर्देयं, वन्दनं दमिनां मया । नरकायुर्यथा शेषमपि निःशेषतां भजेत् ॥ १९३ ॥ द्रव्यवन्दनमित्थं ते, न भवेद् दुर्गतिच्छिदे। इत्युक्तः स्वामिनाऽपृच्छद्, वीरकस्य फलं हरिः ॥ १९४॥ अथाभ्यधत्त 'तीर्थेशः, क्लेश एवास्य तत्फलम् । वन्दिताः साधवोऽनेन, यतस्त्वदनुवर्तनात् ॥ १९५ ॥ ' नत्वाऽथं नाथमावासे, 'ययौ द्वारवतीपतिः। दण्डणाख्यो हरेः सूनुः, प्राजन्नेमिसन्निधौ ॥ १९६ ॥
१ मे, नन्तुं च हरिणा प्रभुम् ॥ खंता० सं० ॥ २ त्वं, स्वाम्यं तात 'प्रय खता० सं० ॥ - ३ ऊचे विष्णुर्वि सं० ॥ ४ यनरकोचितम् ॥ खता० सं० ॥ , ५ नं. शमि खंता० सं० ॥
६ शेषं, मम मूलादपि त्रुटेत् खंता० सं० ॥