SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ सर्गः] . धर्माभ्युदयमहाकाव्यम् । १७१ अथ प्रीतो हरिः सर्वैः, खेचरैचरैर्वृतः । वसुधां साधयामास, त्रिखण्डां चण्डविक्रमः ॥४१८ ॥ भरतार्द्ध विजित्याथ, प्रविष्टो द्वारकापुरीम् । स भेजे सम्भृतं भूपैरभिषेकमहोत्सवम् ॥ ४१९ ॥ सम्बन्धि-बन्धुवर्गेषु, सेवकेषु सुहृत्सु च । यथौचित्यं ददौ राज्यसंविभागं गदाग्रजः ॥ ४२० ॥ इत्थं निर्मथिताशेषोपसर्ग-ग्रह-विग्रहः । गोविन्दो विदधे न्यायधर्मशर्ममयीं महीम् ॥४२१ ॥ परिचरति पुरीयं वारिधौ न्यायधर्म व्यतिकरमकरन्दस्यारविन्दस्य लक्ष्मीम् । जितसितकरमूर्तिस्फूर्तिभिः सच्चरित्रै रिह विहरति हंसः कंसविध्वंसनोऽसौ ॥४२२॥ ॥ इति श्रीविजयसेनसूरिशिष्यश्रीमदुदयप्रभसूरिविरचिते श्रीधर्माभ्युदयनानि __ श्रीसङ्घपतिचरिते लक्ष्म्यके महाकाव्ये हरिविजयो नाम त्रयोदशः सर्गः ॥ विश्वस्मिन्नपि वस्तुपाल ! जगति त्वत्कीर्तिविस्फूर्तिभिः, श्वेतद्वीपति कालिकाकलयति स्वर्मालिकानां मुखम् । यस्तैस्तावककीर्तिसौरभमदान्मन्दारमन्दादरे, वर्गे स्वर्गसदां सदा च्युतनिजव्यापारदुःस्थैः स्थितम् ॥१॥ ॥ ग्रन्थानम् ४३० ॥ उभयम् ४६९० ।। १ म् ४०४ । उभयं ग्रंथ ४५७९ वता० ॥
SR No.010638
Book TitleDharmabhyudaya Mahakavya
Original Sutra AuthorN/A
AuthorChaturvijay, Punyavijay
PublisherBharatiya Vidya Bhavan
Publication Year1949
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy