________________
८६
सङ्घपतिचरितापरनामकं
- [ अष्टमः
तुष्ट जगाद यक्षोsथ, किमु त्वं याचसीति ताम् । द्विगुणं सिद्धितो देयं, ममेत्येषाऽवदन्मुदा ॥ ५८३ ॥ ददौ यक्षोऽन्वहं तस्यै, दीनाराँश्वतुरस्ततः । अथ सा प्रथते बुद्धिरपि सिद्धिरिवान्वहम् ॥ ५८४ ॥ बुद्धेः सिद्धिमिति ज्ञात्वा, सिद्ध्याऽऽराद्धः पुनर्ददौ । ततोऽपि द्विगुणं यक्षः, सेवाकृत्कल्पपादपः ।। ५८५ ॥ आराद्धस्तत् पुनर्बुद्ध्या, यक्षः प्रत्यक्षतां गतः । द्विगुणं कल्पयामास, प्रत्यहं सिद्धिऋद्धितः ॥ ५८६ ॥ आराधयत् पुनः सिद्धिस्तं यक्षं क्रूरमानसा । किं ते ददामि ? तुष्टोऽस्मि, सोऽपि तामित्यभाषत ॥ ५८७ ॥ सिद्ध्या तदूचे तचक्षुरेकं मे काणय प्रभो ! । तामेकचक्षुषं यक्षस्ततः कृत्वा तिरोदधे 11:466 11 बुद्ध्याऽथ पुनराराद्धो, यक्षः साक्षात् पुरोऽभवत् । निगदन् किं ददामीति, प्रीतिपूरवरं वरम् १ ॥ ५८९ ॥ विधेहि द्विगुणं नाथ !, मम त्वं सिद्धिदानतः । तदाकर्ण्य विधायान्धां, बुद्धिं यक्षस्तिरोऽभवत् ॥ ५९० ॥ तद्वत् त्वमपि तन्नाथ !, ऋद्धिं प्राप्यापि दुर्लभाम् । अनुत्तरां श्रियं वाञ्छन्नपाये निपतिष्यसि ॥ ऊचे जम्बूकुमारोऽथ, समारोपितैनिश्चयः । उत्पथप्रस्थितिं कुर्वे, नैवाहं वाजिराजवत् ॥
C
५९१ ॥
५९२ ॥
वाजिराजाख्यानकम्
1
श्री वशंवदसौन्दर्य, श्रीवसन्तपुरं पुरंम् । अस्ति क्षितिवधूंहारतारं प्राकार भासुरम् ॥ ५९३ ॥ जितशत्रुर्नृपस्तत्रं, सुत्रामप्रतिमः श्रिया । आसीद् दोःस्तम्भदम्भोलिलोलितापरभूमिभृत् ॥ ५९४ ॥ असौ यशः कुमारस्यं, यदीयस्य विसर्पतः । बभौ नभःपथोत्सङ्गे, शशी सहचरश्चिरम् ॥ ५९५ ॥ 'अन्यदा स नृपोऽवादीद्, वाहरत्नपरीक्षकान् ।
1
॥
सर्वोत्कृष्टोऽस्ति मे वाजी, राज्ये कोऽपीति कथ्यताम् अथ ते गदिते राज्ञा, हयविद्याविदो हयम् । चकृषुः सैन्यतो वार्द्धेरिन्द्रवाहमिवामराः भूपाय दर्शयामासुर्दर्शनीयममुं हयम् । ते पूर्णलक्षणं भानुरथाकृष्टमिवाष्टमम् किश्व विज्ञपयाञ्चक्रुस्ते महीशक्रमक्रमात् । वाहोऽयं यस्य राज्ये स्यान्न स जेयः परैरिति तदसौ वसुधाहार, सुधाहारहयोपमः । रक्षणीयः प्रयत्नेन, सम्पूर्णाष्टाङ्गलक्षणः इत्याकर्ण्य गिरं तेषां सविशेषां मुदं वहन् । किञ्चिद् विचिन्तयामास, हयन्यासकृते नृपः अथ दध्यौ नृपो योग्यं, जिनदासं वणिग्वरम् । भाति यद्यशसः शैलनाथः प्राथमकल्पिकः ॥ असावगर्ह्यगार्हस्थ्यत्रतमाणिक्यवारिधिः । धर्मैकध्यानधन्यस्य, तस्य न्यासाय कल्पते इत्यालोच्य तमाकार्य; कार्या- कार्यविवेककृत् । तं न्यासमर्पयामास, मेदिनीवासवो हयम् अर्पितः स नरेन्द्रेण, समुद्रेणेव चन्द्रमाः । जगृहे जिनदासेन, नभसेव महीयसा जिनदासोऽद्भुततमं तमङ्गीकृत्य वाजिनम् । निशान्तमाप तेजस्वी, निशान्तमिव भास्करः ॥ ६०६ ॥ तच्चारुचतुरङ्गाय, तुरङ्गाय व्यधाद् वणिग् । इन्दिरांमन्दिरायास्मै, मन्दुरां मन्दिरान्तरे ॥ ६०७ ॥ श्वेतस्यास्य हयस्याधः क्षिप्ता कोमलवालुका | प्राप्ता दीप्तिजितेवासौ, सेवार्थं चन्द्रगोलिका ॥ ६०८ ॥ समग्रभुवनव्यापि श्रीवशीकारकारणम् । श्रीजिनं वाजिनं वाऽयमेकं ध्यायति धीरधीः ॥ ६०९ ॥
॥ ६०५ ॥
॥ ५९६ ॥
॥ ५९७ ॥
॥ ५९८ ॥ -
॥ ५९९ ॥
॥
"
६०० ॥
६०१ ॥
६०२ ॥
।। ६०३ ।।
॥ ६०४ ॥
१ बुद्धिसि पाता० ॥ २ मिमांशा खता० पाता० ॥ ३ 'तसम्मदः । उत्पथ ं खता• ॥ ४ 'थात् कृ संता० पाता० ॥
9