SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ [ ४ ] पुनरविद्येति । एताः सर्वा वृत्तयो निरोद्धव्याः । आसां निरोधे सम्प्रज्ञातोऽसम्प्रज्ञातो वा समाधिर्भवति । ( ० ) अत्र विकल्पः शब्दान्नाऽखण्डालीकनिर्मासोऽसत्ख्यात्यसिद्धेः, किन्तु “ असतो रात्थि सिसेहो" इत्यादि भाष्यकृद्वचनात्खण्डशः प्रसिद्धपदार्थानां संसर्गारोप एव, अभिन्ने भेदनिर्भासादिस्तु नयात्मा प्रमाणैकदेश एव । निद्रा तु सर्वा नाऽभावालम्बना, स्व करितुरगादिभावानामपि प्रतिभासनात् । नापि सर्वा मिथ्यैव, संवादिस्वमस्यापि बहुशो दर्शनात् । स्मृतिरप्यनुभूते यथार्थतत्तारूयधर्मावगाहिनी, संवादविसंवादाभ्यां द्वैविध्यदर्शनाद् इति तिम्रयामुत्तरवृत्तीनां द्वयोरेव यथायथमन्तर्भावात् पश्ववृत्त्यभिवानं स्वरुचितप्रपञ्चार्थम् | अन्यथा क्षयोपशमभेदादसा यभेदानामपि संभवात्, इत्याईत सिद्धान्तपमार्थवेदिनः | अभ्यासवैराग्याभ्यां तन्निरोधः ॥ १-१३ ॥ तत्र स्थितौ यत्नोऽभ्यासः ॥ १-१३ ॥ स तु दीर्घकालनैरन्तर्य सत्कार / सेवितो दृढभूमिः ॥ १-१४ ॥ दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम् ॥ १-१५ ॥ १ विशेषावश्यक माध्यमा, १५७९
SR No.010623
Book TitlePatanjal Yogdarshan tatha Haribhadri Yogvinshika
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi
PublisherAtmanand Jain Pustak Pracharak Mandal
Publication Year1922
Total Pages249
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy