SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ [ ५४ ] पारितता क्रमेणैवानुभूयत इति । तत्राप्यलव्धपर्यवसान: शब्दपृष्ठेनास्तिक्रियामुपादाय कल्पित इति ॥ ( य० ) - सर्वत्र द्रव्यतयाऽक्रमस्य पर्यायतया च क्रमस्यानुभवात् क्रमाक्रमानुविद्धत्रैलक्षण्यस्यैव सुलक्षणत्वात् कूटस्थ नित्यसायां मानाभावः । पर्याये च स्थितिचातुर्विध्याद्वैचित्र्यमिति प्रवचनरहस्यमेव सयुक्तिकमिति तु श्रद्धेयम् ॥ प्रकृतम् अथास्य संसारस्य स्थित्या गत्या च गुणेषु वर्तमानस्यास्ति क्रमसमाप्तिर्न वा १ इति । श्रवचनीयमेतत् । कथम् १ प्रस्ति प्रश्न एकान्तवचनीयः सर्वो जातो मरिष्यति । ॐ भो इति । अथ सर्वो मृत्वा जनिष्यत इति विभज्य वचनीयमेतत् । प्रत्युदितख्यातिः चीणतृष्णः कुशलो न जनिष्यते इतरस्तु जनिष्यते । तथा मनुष्यजातिः श्रेयसी न वा श्रेयसी ? इत्येवं परिपृष्टे विभज्य वचनीयः प्रश्नः, पशूनुद्दिश्य श्रेयसी, देवान् ऋषींचाधिकृत्य नेति । श्रयं त्ववचनीयः प्रश्नः संसारोऽयमन्तवानथानन्त इति १ । कुशलस्यास्ति संसारक्रमपरिसमासिर्नेतरस्येति श्रन्यतरावधारणे दोषः । तस्माद्वयाकरणीय एवायं प्रश्न इति || गुणाधिकारक्रमपरिसमाप्तौ कैवल्यमुक्तम्, तत्स्वरूपमव धार्यते- पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं
SR No.010623
Book TitlePatanjal Yogdarshan tatha Haribhadri Yogvinshika
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi
PublisherAtmanand Jain Pustak Pracharak Mandal
Publication Year1922
Total Pages249
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy