SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ L प [५२] तदसंख्येयवासनानिश्चित्रमपि परार्थ संहत्य कारित्वात् ॥४-२४ ॥ विशेषदर्शिन आत्मभावभावनानिवृत्तिः॥४-२५॥ तदा विवेकनिनं कैवल्यप्राग्भारं चित्तम् ॥४-२६॥ तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः॥४-२७॥ हानमेषां क्लेशवदुक्तम् ।। ४-२८ ॥ प्रसंख्यानेऽप्यकुसीदस्य सर्वथा विवेकख्यातेधर्म मेघः समाधिः ॥४-२९ ॥ । ततः क्लेशकर्मनिवृत्तिः ॥ ४-३० ॥ तदा सर्वावरणमलापेतस्य ज्ञानत्यानन्त्याज्ञय मल्पम् ॥ ४-३१॥ ___ भाष्यम्-सर्वैः क्लेशकर्मावरणैर्विमुक्तस्य ज्ञानस्यानन्त्यं भवति । श्रावरकेण तमसाऽभिभूतमावृतं अनन्तं ज्ञानसत्त्वं कचिदेव रजसा प्रवर्तितमुद्घाटितं ग्रहणसमर्थ भवति । तत्र यदा सर्वैरावरणमलैरपगतं भवति तदा भवत्यस्यानन्त्यं, ज्ञानस्यानन्त्याज्ज्ञेयमल्पं संपद्यते, यथाऽऽकाशे खद्योतः । यत्रेदमुक्तम्- " अन्धो मणिमविध्यत्तमनगुलिरावयत् । अग्रीवस्तं प्रत्यमुञ्चत्तमजिहोऽभ्यपूजयत् ॥ १ ॥” इति ॥
SR No.010623
Book TitlePatanjal Yogdarshan tatha Haribhadri Yogvinshika
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi
PublisherAtmanand Jain Pustak Pracharak Mandal
Publication Year1922
Total Pages249
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy