SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ [ ४ ] न चैकचित्ततन्त्रं वस्तु तदप्रमाणकं तदा किं स्यात् ॥ ४-१६ ॥ तदुपरागापेक्षित्वाच्चित्तस्य वस्तु ज्ञाताज्ञातम् ॥४-१७ यस्य तु तदेव चित्तं विषयस्तस्यसदा ज्ञाताश्चित्तवृत्तयस्तत्प्रभोः पुरुषस्यापरिणामित्वात् ॥ ४-१८ ॥ भाप्यम् - यदि चित्तवत्प्रभुरपि पुरुषः परिणमेत तदा तद्विपयाश्चित्तवृत्तयः शब्दादिविषयवद् ज्ञाताज्ञाताः स्युः । सदाज्ञातत्वं तु मनसस्तत्प्रभोः पुरुपस्यापरिणामित्वमनुमापयति ।। ( २० ) - ज्ञानरूपस्य चित्तस्यात्मनि धर्मितापरिणामः सदा सन्निहितत्वेन तस्य सदाज्ञातत्वेऽप्यनुपपन्नः शब्दादीनां कादाचित्क्सन्निधानेनैव व्यञ्जनावग्रहादिलक्षणेन ज्ञाताज्ञातत्वसभवात् । त एव केवलज्ञाने शक्तिविशेषेण विषयाणां सदा सन्निधानाद् ज्ञानावच्छेदकत्वेन तेषां सदाज्ञातत्वनबाधितमिति तु पारमेश्वर प्रवचनप्रसिद्धः पन्थाः ॥ प्रकृतम् yagaglia , स्यादाशङ्का चित्तमेव स्वाभासं विपयाभासं च भवि - प्यत्यग्निवत् १' तत्प्रमाणकं ' इत्यपि । २ 'पि नानुपन्नः' इति स्यात् ।
SR No.010623
Book TitlePatanjal Yogdarshan tatha Haribhadri Yogvinshika
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi
PublisherAtmanand Jain Pustak Pracharak Mandal
Publication Year1922
Total Pages249
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy