SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ [२०] ते प्रतिप्रसवहेयाः सूक्ष्माः ॥ २- १० ॥ भाष्यम् - ते पञ्च क्लेशा दग्धवीजकल्पा योगिनश्चरिताधिकारे चेतसि प्रलीने सह तेनैवास्तं गच्छन्ति || ( २० ) - क्षीणमोह संबन्धियथाख्यात चारित्रद्देया इत्यर्थः || स्थितानां तु बीजभावोपगतानां - ध्यानहेयास्तद्वृत्तयः ॥ २-११ ॥ क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः ॥२- १२ सति मूले तद्विपाको जात्यायुर्भोगाः ॥ २-१३ ॥ भाष्यम् - सत्सु क्लेशेषु कर्माशयो विपाकारम्भी भवति, नोच्छिन्नक्लेशमूलः । यथा तुपावनद्धाः शालितण्डुला श्रदग्धबीजभावाः प्ररोहसमर्थाः भवन्ति, नापनीततुपा दग्धवीजभावावा, तथा क्लेशावनद्धः कर्माशयो विपाकप्ररोही भवति, नापनीतक्लेशो न प्रसंख्यानदग्धक्लेशवीजभावो वेति । मच विपाकस्त्रिविधो जातिरायुर्भोग इति । तत्रेदं विचार्यते किमेकं कर्मैकस्य जन्मनः कारणम् ? अथैकं कमनेकं जन्माक्षिपतीति ? । द्वितीया विचारणा- किमनेकं कर्मानिकं जन्म निर्वर्तयति ? थानेकं कर्मकं जन्म निर्वर्तयति ? इति । न तावदेकं कर्म एकस्य जन्मनः कारणम्, कस्मात् ? अनादिकालप्रचितम्यासंख्येयस्यावशिष्टस्य कर्मणः सांयतिक्रम्य च फलक्रमानियमात् अनाश्रामो लोकस्य प्रमुक्तः स चानिष्ट इति । न चैकं कर्मानेकस्य जन्मनः कारणम्, कम्मान् ? -
SR No.010623
Book TitlePatanjal Yogdarshan tatha Haribhadri Yogvinshika
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi
PublisherAtmanand Jain Pustak Pracharak Mandal
Publication Year1922
Total Pages249
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy