SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ १३८ : गुणनिरूपणम् न वोति विप्रतिपद्य भ्रमो ज्ञानान्याविषयको भ्रमान्यज्ञानान्यत्वात व्योमवत् । न चाप्रयोजकत्वम् । तथाहि । यद्यपि रजतादेर्शानाकारत्वं नानुभवाव्यवस्थाप्यम् । स हीदमनहङ्कारास्पदं रजतमादर्शयति न त्वई रजतमिति । तथापि नेदं रजतमिति बाधकप्रत्ययायनीते वाह्यस्य रजतत्वे ज्ञानस्यैवाकार इति निश्चीयते पारिशेष्यात् । आकारश्चाकारिणोऽभिन्नः भिन्नस्य विषयत्वेऽतिप्रसङ्गात् इत्यत आह-एव ज्ञानाकारेति । न च परिशेषः । नेदं रजतं न वा ज्ञानं रजतमिति वाधकस्याविशेषात् । यथा च ज्ञानभिन्नस्य विषयत्वं तथा च समानतन्त्र व्यवस्थापितम् । ननु विवादाध्यासितानि भ्रमविषयविषयकवाक्यानि वचनदषणाक्रान्तानि न वेति विप्रतिपद्य तानि तथा तद्विषयकवाक्यत्वाव संप्रतिपन्नवदित्यनिर्वचनीयख्यातिरेवास्त्वित्यत आइ विचारसहति । सद्विषयकत्वे बाधकादसद्विषयत्वे चामत्तेः सत्त्वासत्त्वाभ्यामनिर्वाच्यतैव विचारासहत्वम् । तथेति । इहापि प्रवृत्त्यनुपपत्ति षिकेत्यर्थः । अनिर्वचनीयत्वञ्च न तावनिरुक्ति विरहः । इदं रजतं नेदं रजतमित्यादिनिरुक्तेरनुभूयमानत्वात् । नापि सम्यनिरुक्तिविरहः । एतन्निरुक्तरेव सम्यक्त्तासम्यक्त्वयोर्विरोधादिति भावः । अस्तु तख्यिातिः । तथाहि । ज्ञानत्वं व्यधिकरणकागवच्छिन्नत्ति न वा, तत्मसिद्धिश्च भेदाग्रहप्रसज्जितायां रजतत्वप्रकारकशक्तीच्छायामिति विप्रतिपद्य ज्ञानत्वं न विशेष्यात्तिप्रकारकत्ति ज्ञानमात्रवृत्तित्वात प्रमात्ववत । न चेदमप्रयोजकम् । अन्यथाख्यातौ बाधकात् साधकाभावाच्च । तथाहि । प्रत्यक्षणेद
SR No.010622
Book TitleKinrnavali Prakash
Original Sutra AuthorN/A
AuthorVardhaman Upadhyaya, Badrinath Shastri
PublisherVardhaman Upadhyaya Badrinath Shastri
Publication Year1936
Total Pages107
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy