SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ १३६ ...गुणनिरूपणम्... . . न च विशेषाग्रहमात्रं. तन्नियामकम् । अगृहीतावशेषेऽप्यसरूपे भ्रमादर्शनात् । अत.. एच. सारूप्यस्यैकदेशकास्न्ये विकल्पोऽप्यपास्तः । आरोप्योपस्थापकत्वमात्रस्य प्रयोजकत्वात् । एवञ्च स्मर्यमाणारोपे सारूप्यग्रहः कारणम् । पतिः शङ्ख इत्यादौ च नयनादिसम्भिन्नपित्तपीतिमानमनुभूय शङ्ख तदारोपः । किञ्च । नात्र शखे पीतगुण आरोप्यते । किन्तु शङ्खपीतगुणावारोपविषयौ संसृष्टत्वमारोप्यम् । तथाच • संसृष्टस्वभावाभ्यां गुणगुणिभ्यां सारूप्यमारोपप्रयोजकम् । तचासम्बन्धानहरूपमत्रास्त्येवेत्याह-न च पीतिमतिक्तत्वे इति । संसृष्टत्वस्यारोपे तस्य केवलान्वयितया तत्र विशेषादर्शनादित्यर्थः । न चैवं प्रतीतर्धमत्वानुपपत्तिः केवलान्वयिधम्मिविषयज्ञानस्य यथार्थत्वस्य नियमादिति वाच्यम् । संसृष्टविषयत्वे तथात्वे धर्मद्वय. प्रकारत्वांशे भ्रमत्वात् । नन्वेवं शङ्खपीतगुणौ संसृष्टाविति धीः स्यात् । मैवम् । संसर्गस्य ससम्बन्धिकतया तन्निरूप्यत्वेनोपस्थितपदार्थेनैव तन्निरूपणातः । तथाप्यसंसर्गाग्रहस्य स्वरूपसत एवारोपहेतुत्वादाराप्यारोपविषयसा रूप्यस्य च ज्ञातस्योपयोगात् । .... अत्राहुः । यत्र तादात्म्यारोपः तत्र सारूप्यं ज्ञातमुपयुच्यते संसर्गारोपे तु स्वरूपसदेव प्रयोजकमिति. भवत्यसंसर्गाग्रहः सारूप्यम् । यद्वा । यत्र सारूप्यमेव / दोपस्तत्रारोप्योपस्थापकतया सारूप्यमुपयुज्यते .. न . तु यत्र. पित्तादिर्दोषः । तत्रारोप्योपस्थितेरनुभवरूपायाः सम्भवात् । ननु दोपानसर्गिकक्रार्य
SR No.010622
Book TitleKinrnavali Prakash
Original Sutra AuthorN/A
AuthorVardhaman Upadhyaya, Badrinath Shastri
PublisherVardhaman Upadhyaya Badrinath Shastri
Publication Year1936
Total Pages107
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy