SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ अष्टम-स्तवः अष्टम- स्तवः । श्रादावेकां लोकसिसृक्षारसजुष्टां, द्वन्द्वाभ्युष्टां भृतनिकायान् कलयन्तीम् । मायामुख्यैर्नामभिराद्यैरुपदिष्टां, " मूलाधारादा च विशुद्धेः प्रविभक्तां, वन्देऽमन्दद्योतकदम्यां जगदम्बाम् ||१|| शाब्दी सृष्टि, पात्रविशेषाद् घटयन्तीम् । श्रौतैः स्मार्तैः पौरुषमूक्त रुपगीतां, ४३ वन्देऽमन्दद्योतकदम्बां जगदम्बाम् ||२|| अष्टम- स्तवः । १ - आदौ जगन्निर्माणात् प्राक्, एकां द्वितीयां, लोकस्य जगतः, या सिसृक्षा स्रष्टुमिच्छा, तद्रसेन रागेण जुष्टा आनन्द निर्भरा ताम् । द्वन्द्व ं दाम्पत्यरूपं स्त्रीपुंसयोर्मिथुनं, तत्र अव्युष्टां कृताधिवासाम् भूतनिकायान्, जरायुज- अण्डज - स्वेदजोद्भिज्जेति चतुर्विधान् भूतसङ्घान् कलयन्तीं घटयन्तीम् । मायामुख्यं एषु तै', 'माया कुण्डलिनी क्रिया' इत्येवमादिभिः पारायणप्रशस्तैः नामभिः अभिधानै., आद्यः ऋषिमुन्यादिभि आप्तवर्गे, उपदिष्टां विशिष्य वोविताम् । अमन्द' स्फार. द्योतकदम्ब प्रकाशस्तोमोऽस्यामिति अमन्दद्योतकदम्बा ताम्, सकलजननीं वन्दे अभिवादये | : २- मूल चासौ आधारश्च मूलाधार भूतत्त्वप्रधानं कुलकुण्डादिव्य . पदेश्यं षडादिचके प्रथमम् । तत आरभ्य सुषुम्णाध्वना स्वाधिष्ठान - मणिपूरानाहतचक्रान् विभेदयन्ती, आ च विशुद्ध े विशुद्धिपर्यन्तम् । प्रविभक्तां वितताम् । आडभिविधौ । विशुद्धिर्नाम षोडशदलपद्माधिष्ठानभूतं श्रीवाकूपम् । पात्रविशेषात् कृपाकटाक्षपूतादनुरूपभाजनात् । पात्रत्व चैवं स्मर्यते 1 'न विद्यया केवलया तपसा वापि पात्रता । यत्र वृत्ती इमे चोभे तद्धि पात्रं प्रकीर्तितम् ॥' शाब्दी सृष्टिं, शब्दात्मकं विवर्त, घटयन्तीमित्यत्रान्तर्भावितण्यर्थः, प्रेरण्या तथा कलयन्तीम् । श्रौतैं. श्रुतिभवै., स्मार्तैः स्मृत्युपारूढैः, पौरुपसूक्तै श्रुतिमधुराभि. पौरुषकृतिभिः, उपगीतां भावोपहारैरचिताम्, अन्यत् पूर्ववत् ।
SR No.010620
Book TitleDurgapushpanjali
Original Sutra AuthorN/A
AuthorJinvijay, Gangadhar Dvivedi
PublisherRajasthan Puratattvanveshan Mandir
Publication Year1957
Total Pages201
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy