SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ ३८ दुर्गा-पुष्पाञ्जलिः इति विहितविवेकः पाहि पाहीति जल्पन् कथमपि तव पादध्यानदत्तादरः स्याम् ॥८॥ ॥ इति सकल-जननी-स्तवः ॥६॥ 'सा स्फुरत्ता महासत्ता देशकालाविशेपिणी । सैषा सारतया प्रोक्ता हृदय परमेष्ठिनः ।।' इत्येवं प्रत्यभिज्ञादिषु सारनिष्कपः । 'पुरमथितुराहोपुरुपिका' 'परब्रह्ममहिषी' इत्येवंविधा आलापास्तु उपासनाभिप्रायेणैव नीयमाना- सङ्गच्छन्त इति संक्षेपः । ॥ इति सकलजननी-स्तवः ।। १-इयमेव भुवनेश्वरीप्रभृतिविद्यासमष्टीनां प्रसवभूमिः, सर्वतत्त्वानामधिष्ठानभूता च । अस्याः सकलजननीत्वम्'कामो योनि. कमला वज्रपाणि गुहा हसा मातरिश्वाभ्रमिन्द्र । पुनर्गुहा सकला मायया च पुरूच्येषा विश्वमातादिविद्या ।।' इति शौनकशाखीयया आथर्वणश्रुत्या यावेद्यते । तथा ऋग्वेदेऽपि 'इन्द्रो मायाभिः पुरुरूप ईयत' इत्येवमाद्या प्रतिपत्तय । तत एव चास्या महिमानं पुरस्कृत्य 'त्रिपुरा परमाशक्तिराया जाता महेश्वरी। स्थूलसूक्ष्माविभागेन त्रैलोक्योत्पत्तिमातृका ॥ कवलीकृत-नि शेपतत्त्वग्रामस्वरूपिणी । यस्यां परिणताया तु न किंचित परिशिप्यते ॥'इत्यागमवेदिनां घण्टाघोष इनि दिक् ।
SR No.010620
Book TitleDurgapushpanjali
Original Sutra AuthorN/A
AuthorJinvijay, Gangadhar Dvivedi
PublisherRajasthan Puratattvanveshan Mandir
Publication Year1957
Total Pages201
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy