SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ १९८ दुर्गा-पुष्पाञ्जलिः अभिनवस्फुटशाखिशिखास्खलस्कुसुम संहतिसंकुल संचरा । नददुदारखगावलिरुच्चकै रुपेवना पवनाधुतपल्लवा ॥ ३ ॥ रुचिरकुञ्जगृहान्तरसंचर द्भुजगभोजिविकासितताण्डवा । सुनयनानयनादरजृम्भिता ||४|| विपुलसूरसुतापुलिनान्तरे विकिरकेलिविमर्दसमुच्चर त्कुसुमसौरभ सांद्रदिगन्तरा । रूपो नायिकाविशेषः । वरं सुन्दरं तामरसं कमलं उदकं जलन यस्यां तथाभूता । ३ - अभिनवाः नूतनाः, स्फुटाः विकसिताश्च ये शाखिनः तरवः, तेषां शिखाभिः शाखाभिः स्खलन्ती निपतन्ती या कुसुमानां संहतिः पुष्पचयः, तया संकुलः सम्बाधः संचर संचारो यस्यां तथाभूता । नदन्ती मधुरं कूजन्ती या उदारा महती चासौ खगावलिः विहगश्रेणि तया उच्चकै उन्नतानि उपवनानि यस्यां तथाभूता । पवनेन वायुना आ समन्तात् धुता कम्पिताः पल्लवाः किसलयानि यस्यां सा । ४ - रुचिरं मञ्जुलं यत् कुञ्जगृहं लतामण्डपं तदन्तरे संचरन्तः इतस्ततः सञ्चारं कुर्वन्तः ये भुजगभोजिनः भुजगान् सर्पान् भुञ्जते इति भुजगभोजिनो मयूराः । तैः विकासितं प्रकाशितं ताण्डवं नृत्यं यस्यां सा । ‘ताण्डवं नटन नाट्य' लास्यं नृत्यं च नर्तने' इत्यमरः । विपुलं अतिमहत् यत् सुरसुताया: कालिन्दया: पुलिनं तोयोत्थितं तटं तदन्तरे । शोभने नयने नेत्रे यासां तासां सुनयनानां कटाक्षवतीनां सीमन्तिनीनां, नयनादरैः श्रपानप्रेक्षितैः, जृम्भिता प्रसन्नवदना । ५ - विकिराः विहंगाः, तेषां यः केलिविमर्दः क्रीडारसासक्ततया परस्परमुपमर्द:, तेन समुचरन वहिर्निगच्छन् यत् कुसुमस्य सौरभ आमोदभरः, तेन
SR No.010620
Book TitleDurgapushpanjali
Original Sutra AuthorN/A
AuthorJinvijay, Gangadhar Dvivedi
PublisherRajasthan Puratattvanveshan Mandir
Publication Year1957
Total Pages201
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy