SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ दुर्गा-पुष्पाञ्जलिः अधिजलोच्छितदारवपट्टिका तलनिविष्टयतीशपरिष्कृता । विकृतिभेदविजृम्भितसंहिता मधुरिमा धुरि मादकृतां गता ॥३॥ सरससंमिलदुन्मदमाधुरी प्रचुरमज्जनजर्जरितोमिका । भगवती यमुना वृजिनापहा विजयते जयतेजनकृत् सताम् ॥१०॥ ॥ इति यमुना-कुलकम् ।। -जलं अधि इत्यधिजलम् । सामीप्याथै अव्ययीभावः । जलोपकण्ठे उच्छितानां औनत्येन स्थापितानां दारवपट्टिकानां देवदारुप्रभृतिभिःकाष्ठनिर्मितानां पट्टिकानां तलेषु आधारेषु निविष्टः उपविष्ट. यतीशैः मुमुक्षुभिः परिष्कृता विभूषिता । विकृतिभेदाः जटा-मालादिरूपाः तैः । विकृतयस्त्वेवं स्मर्यन्ते 'जटा-माला-दण्डरेखारथध्वजशिखाघनाः । क्रममाश्रित्य निर्वृत्ता विकारा अष्ट विश्रुता ।।' इति । विजृम्भिता विभूषिता या संहिता यजुर्वेदादिरूपा तासां मधुरिमा मधुरस्य भाव. । माधुर्यामत्यर्थः । मादकृतां मादं हर्ष कुर्वन्ति इति मादकृतः तेषां मानसोल्लासकराणमित्यर्थः । धुरि गता प्रमुखरूपतां संप्राप्ता । १०- सरसं यथा स्यात् तथा सम्मिलन्त्य. गाढमाश्निपत्य., उन्मदा. यौवनोन्मादमधुरा., याः माथुर्यः मथुरानिवासिन्यः योपित , तासां प्रचुरैः यथारुचितैः, मननैः जलस्नानकेलिभिः, जर्जरिताः जीर्णतां गता. ऊर्मिकाः तरगावलयो यस्याः सा तथाभूता। वृजिनं पापमपहन्ति इति वृजिनापहा ज्ञाताजातेभ्यः पापकर्मभ्य. सद्यो मुक्तिदायिनी । भगवती ऐश्वर्यशालिनी, यमुना कलिन्दगिरितनया, सतां सन्मार्गाश्रयिणां जयतेजनं करोति इति जयतेजनकृत् । आशु विजयप्रदा विजयते इति शिवम् । ।। इति यमुना-कुलकम् ।।
SR No.010620
Book TitleDurgapushpanjali
Original Sutra AuthorN/A
AuthorJinvijay, Gangadhar Dvivedi
PublisherRajasthan Puratattvanveshan Mandir
Publication Year1957
Total Pages201
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy