SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ दुर्गा-पुष्पाञ्जलिः देवानां सार्वभौमो विविधभवभवाज्ञानवाटीकुठारः श्रेयः श्रीरङ्गशालाखिलनिगमकलाकल्पनोल्लाससीमा । सा होभङ्गवीजं मुनिजनहृदयागाररत्नप्रदीप: कश्चिद्भ मास्तु भूत्यै स्फुटकुमुदवनीभार्गवीगेयकान्तिः ॥७॥ क्रोडक्रीडत्पृदाकूत्कटविकटजटाटोपटंकारकेलि त्रुध्यन्नक्षत्रचक्रक्रमिकचटचटाकारिवृष्टिप्रकृष्टम् । अकान्तः कान्तया रहितः विधुर इति यावत् । इहापि विरोधः आभासते । स च एवं परिहरणीयः- अकानां क्लेशानां पापानां वा अन्तो यस्मादिति । शशधरः शशं मृगभेदं धरति इति शशधरः चन्द्रः, स एव मुकुटस्य शिरोभूषणस्य अलंकृतिः आभरणं यस्य तादृश. । स. देवदेवो महादेवः अस्मान् अव्यात् रक्षेत् । -देवानां अमराणां सार्वभौम सर्वभूमेरीश्वर. 'सर्वभूमिपृथिवीभ्यामणबौ' इत्यण । चक्रवर्ती पार्थिव. । विविध' अनेकयोनिमुक्त. यो भवः उत्पत्तिः तत्र भवाना उत्पन्नानां अज्ञानाना तमोरूपाणां या वाटी उपवनं, तस्याः कृते कुठार. परशुरिव सद्यः संहारक. । श्रेयस' मुक्तिधाम्न. या श्रीः सुषमा, तस्याः रङ्गशाला अभिनयभूमिः । अखिला. ये निगमा' वेदोपवेदाः, उपनिषदादयो वेदशिरोभागाश्च तेपां या कला नवनवो उदय', तस्याश्च य कल्पनोल्लासः कल्पनाप्रसूत. अाह्नादः । तस्य मीमा पार्यन्तिकीभूः । सर्वाणि यानि अंहासि पापसङ्घाः तेपां भगस्य उच्छेदस्य बीजं आदिकारणम् । मुनिजनानां सनकादितपोमूर्तीनां हृदयागारस्य महतः प्रतिष्ठायतनस्य, रत्नप्रदीपः स्न इव भास्वरः प्रकाशस्तम्भः । स्फुटा विकसिता या कुमुदवनी कहारवाटिका । सा इव भासमाना या भार्गवी पार्वती, तया गेया कान्तिः सुपमासौभाग्य यस्य तथाविध । कश्चित् अनिर्वचनीयमहिमा । भूमा परमात्मा । भूत्यै सर्वविधोत्कर्षाय अस्तु जायताम् ।। ८- कोडे उत्सङ्गे क्रीडतां खेलां कुर्वतां पृदाकूनां सारणां, उत्कटे महति प्रशस्ते, विकटे विशाले जटाया आटोपे संभारे, या टंकारशब्दानां केलिः क्रीडा, तया त्रुट्यन यो ननाचक्र तारकवृन्द', तस्य च या कमिका यथोत्तरं
SR No.010620
Book TitleDurgapushpanjali
Original Sutra AuthorN/A
AuthorJinvijay, Gangadhar Dvivedi
PublisherRajasthan Puratattvanveshan Mandir
Publication Year1957
Total Pages201
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy