SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ अष्टमूर्ति-स्तवः एतन्महेश्वरपदस्तवनं हि यस्मिन् ज्ञाते वसन्ततिलकायितविश्वमेतत् ॥॥ ॥ इत्यष्टमूर्ति-स्तवः ॥१६॥ भूमिम् । पर्यन्ततः परमशिवे एव सर्वतत्त्वसमष्टेर्विश्रमाभ्युपगमात् । भ्रमाणां मनोविकाराणां विलयं प्रलयभुवम् | आनन्दसिन्धोः आनन्दभरितस्य महार्णवस्य सदनं आगारम् । कुसृष्टे. कुकल्पनाजातस्य कदनं मर्दनम् । एवंविधं तदेतत् प्रक्रान्तं महेश्वरस्य सर्वविधैश्वर्यशालिनः पदस्तवनं चरणयोगुणानुवादः । यस्मिन् प्रशंसावादे ज्ञाते शब्दतोऽर्थतश्च हृदयान्तःकलिते सति एतत् पुरो दृश्यमानं विश्व वसन्ततिलकायितम् सुरभिसमय इव विविधामोदरसास्वादैः परिपूर्णम् विभाज्यते । वसन्ततिलकायितशब्देन-छन्दसो नामापि ध्वनितम् । ।। इत्यष्टमूर्ति-स्तवः ॥ • १ तन्यते सर्व तन्वादिकं यत्र तत् तत्त्वम् , तननात् वा आप्रलयं तत्त्वम् , तस्य भावः इति वा तत्त्वमिति व्युत्पत्तिसरणिः । अयञ्च तत्त्वव्यपदेशो उपदेश्यजनापेक्षयैव न वस्तुत इति दर्शनहृदयम् । यतोऽयं सर्वावभासः चैतन्यमहेश्वर विश्वप्रपञ्चस्वभावोऽपि सन् संविदेकपरमार्थ एव । पर्यन्ततः सर्वत्र संविद एवानुगमात् इति युक्त्यागमसिद्ध परीक्षणीयम् । तत एव स्थेयाः पठन्ति 'तीर्थक्रियाव्यसनिनः स्वमनीषिकाभि रुत्प्रेक्ष्य तत्त्वमिति यद्यदमी वदन्ति । तत् तत्त्वमेव भवतोऽस्ति न किंचिदन्यत् संज्ञासु केवलमयं विदुषां विवादः ।। इति । . अतएव च परमार्थसारे 'भारूपं परिपूर्ण स्वात्मनि विश्रान्तितो महानन्दम् । । । -- इच्छासंवित्करनिर्भरितमनन्तशक्तिपरिपूर्णम् ॥ सर्वविकल्पविहीनं शुद्ध शान्तं लयोदयविहीनम् । यत् परतत्त्वं तस्मिन् विभाति पत्रिंशदात्म जगत् ।। इति । ' तत्त्वपरिचयस्तु षट्-त्रिंशत्तत्त्वसंदोहादिषु द्रष्टव्य इति दिक् ।
SR No.010620
Book TitleDurgapushpanjali
Original Sutra AuthorN/A
AuthorJinvijay, Gangadhar Dvivedi
PublisherRajasthan Puratattvanveshan Mandir
Publication Year1957
Total Pages201
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy