SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ नवदुर्गा-स्तवः गृणन्ति यां वेदपुगणसांख्य योगागमादेव महर्षयश्च । पुपान् प्रपौत्रान् सुधियः श्रियश्च सा सिद्धिदा सिद्धिकरी ददातु ॥६॥ च्छेदातीतम् । कालीकुल-श्रीकुलान्ततिशक्तिमण्डलं यथा आगमरहस्ये 'काली तारा रक्तकाली भुवना महिषमर्दिनी । त्रिपुरा त्रिपुटर दुर्गा विद्या प्रत्यगिरा तथा ।। कालीकुलं समाख्यातं श्रीकुलं च ततः परम् । सुन्दरी भैरवी वाला वगला कमला तथा ॥ धूमावती च मातङ्गी विद्या स्वप्नावती प्रिये । मधुमती महाकाली श्रीकुलं भाषितं मया ।।' इति । अतः सा गौरी अनन्तविद्याभिः ज्ञानस्वरूपाभिः अनन्तशक्तिभिः, विततं व्याप्त अवदानं पराकमो यस्याः सा । अखिलान् लोक-परलोकसम्बन्धिन , पुमर्थान् पुरुषार्थसाध्यान् चतुर्वर्गान् , विदध्यात् सफलीकुर्यात् । विपूर्वात् दधातेलिड्। ___-महर्षय साक्षात्कृतमंत्ररूपदेवताशरीराः । यां महामहिमशालिनीम् । वेदात् त्रयीरूपात् । पुराणात् आख्यायिकेतिहासरूपात् । सांख्यात् प्रकृतिपुरुषविवेचनपरादात्मदर्शनाद् । योगात् चित्तवृत्तिनिरोधरूपात् मुक्तिप्रतिपादकशास्त्रात् । आगमात् अर्धनारीश्वर-मुखोद्गताद् । गृणन्ति निश्चिन्वन्ति । 'गृ शब्दे' इत्यत. कर्तरि लट् । सा सिद्धिकरी अनुरूपनामगुणा सिद्धिदा मुक्तिप्रदा । सुधिय विद्यावदातान् पुत्रान्, तद्वदेव शाखाप्रशाखोपचितान् योग्यतमान् प्रपौत्रान् । गुणोदारा अविच्छिन्नां च कुलसन्ततिमित्यर्थः । श्रियः लक्ष्म्यश्च ददातु वितरतु । १-आगमरहस्यं नाम अस्मत्प्रपितामहैराचार्यश्रीसरयूप्रसादद्विवेदपादै. संकलितः तन्त्रप्रमेयसन्दर्भः। .
SR No.010620
Book TitleDurgapushpanjali
Original Sutra AuthorN/A
AuthorJinvijay, Gangadhar Dvivedi
PublisherRajasthan Puratattvanveshan Mandir
Publication Year1957
Total Pages201
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy