SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ नवम-स्तवः चारीविलासपरिचारी भवद्गगनचारी हितार्पणचणां, मारीभिदे गिरिशनारीमम्प्रणम, पारीन्द्रपृष्ठनिलयाम् ॥८॥ ज्ञानेन जातेऽप्यपराधजाते विलोकयन्ती करुणादृष्ट्या । अपूर्वकारुण्यकलां वहन्ती, ___सा हन्तु मन्तून् जननी हसन्ती ॥६॥ ॥ इति आदेशाश्वधाटी ॥६॥ कुबुद्धः कृते वारी बन्धनरज्जुः ताम। वार्यते अनया इति वारी । '' धातोणिच इन् च । 'वारी स्याद् गजबन्धिन्यां कलस्यामपि योषिति' इति मेदिनी ! ऋषिप्रकरैः ऋषिसङ्घ भूरि ईडितां स्तुताम् 'ईड स्तुतौ' । भगवतीं ऐश्वर्योल्लासिनीम् । चारः चारुगतिः नृत्यांगविशेषभूतः पदनिक्षेपः स अस्ति अस्यां, तस्या यो विलासः तेन परितः चारो अस्ति अस्याः तथाभूता भवन्ती गगनचारी आकाशचारी । भूमिचार्याकाशचार्यादिषोडशचारीणां लक्षणानि संगीतग्रन्थेषुद्रष्टव्यानि । हितानां अर्पणं प्रसादीकरणम् तेन वित्ता चणा ताम् । मारी महामारीभयं भिनत्ति, तस्मै । गिरिशनारी शिववल्लभाम् । पारीन्द्रः सिंहः, तस्य पृष्ठं निलयो यस्या. सा ताम् । प्रणम प्रणतिपरो भव । ____-ज्ञानेन बुद्धिपूर्वकं अपराधजाते आगः समूहे, जाते अपि करुणाट्या करुणासिक्तदृशा, विलोकयन्ती सस्नेहं पश्यन्ती, सा जननी अपूर्वा अप्रतिमा या कारुण्यकला करुणोदयः ताम् । वहन्ती धारयन्ती, हसन्ती हासमाचरन्ती मन्तून् अपराधान् । 'आगोऽपराधो मन्तुश्चेत्यमरः । हन्तु दूरीकरोतु । - ॥ इत्यादेशाश्वधाटी ।
SR No.010620
Book TitleDurgapushpanjali
Original Sutra AuthorN/A
AuthorJinvijay, Gangadhar Dvivedi
PublisherRajasthan Puratattvanveshan Mandir
Publication Year1957
Total Pages201
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy