SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ ६० ] भुवनेश्वरीपञ्चाङ्गम् . नमः, अम्बिकायै नमः इच्छायै नमः, ज्ञानायै नमः, क्रियायै नमः, कुब्जिकायै नमः, चित्रायै नमः, विषनिकायै नमः, ऐं परायै नमः ऐं परायै नमः, सर्वत्र - हसौः सदाशिव - महाप्रेतपद्मासनाय नमः, शिवमव्वाय नम, इति पीठं संपूज्य पीठोपरि श्रीचक्रं संस्थापयेत् — पद्ममष्टदलं वाह्ये वृतं षोडशभिर्दलैः । विलिखेत् कर्णिकामध्ये षट्कोणमति सुन्दरम् ॥ आचरेद्भूगृहं तद्वदिति चक्रं समुद्धरेत् । मतान्तरे च बिन्दुत्रिकोणं रसकोणसंयुतं वृत्तान्चितं नागदलेन मण्डितम् । कलारवृत्तत्रयभूगृहाङ्कितं श्रीचक्रमेतद् भुवनेश्वरीप्रियम् ॥ इत्येवं श्रीचक्र संस्थाप्य तस्योपरि रक्तपुष्पं किञ्चिज्जलं च दत्त्वा पीठशक्ती: पूजयेत् । दिक्षु जयायै नमः, ई विजयायै नमः, ॐ श्रजितायै नमः, ऋ अपराजितायै नमः, लुं नित्यायै नमः, ऐं विलासिन्यै नमः, औं दोग्ध्यै नमः, अः अघोरायै नमः । मध्ये ह्रीं मङ्गलायै नमः, इति पीठं सम्पूज्य यथोक्तां श्रीभुवनेश्वरीं ध्यायेत् — ॐ उद्यदिनद्युतिमिन्दुकिरीटां तुङ्गकुचां नयनत्रययुक्ताम् । स्मेरमुखीं वरदाभयदाना भीतिकरां प्रभजे भुवनेशीम् ॥ इति ध्यात्वा, यमिति वायुवीजेन वामनासापुटेन देवीं स्वहृदयात् कुसुमाञ्जलाचानीय तत्रावाह्य प्रार्थयेत्-~~ ॐ देवेशि भक्तिसुलभे परिवारसमन्विते । यावत्त्वां पूजयिष्यामि तावद्देवि इहावह ॥ १ ॥ मूलान्ते सवाहनस परिवारसायुधसमुद्रसपरिच्छद श्रीमच्छ्री महेश्वरभैरवसहिते श्रीभुवनेश्वरीहागच्छ इहागच्छ, एवं इह तिष्ठ इह तिष्ठ, एवं इह सन्निधेहि इह सन्निधेहि एवं इह सन्निरुद्धस्व इह सन्निरुद्धस्व, एवं मम सर्वोपचारसहितां पूजां गृह गृह स्वाहा, इत्यावाहनादिनवमुद्राः प्रदर्श्य पीठे पुष्पं दत्त्वा । अथ श्रीचक्रोपरि लेलिहानमुद्रां विधाय प्राणप्रतिष्ठां
SR No.010619
Book TitleBhuvaneshvari Mahastotram
Original Sutra AuthorN/A
AuthorJinvijay, Gopalnarayan Bahura
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages207
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy