SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ पूजापद्धतिः , [४६ अथ संध्या ।। तीरोंपरि पूर्ववदाचम्य स्वमूलप्राणायामऋष्यादिकरषडङ्गन्यासान् विधाय पूर्ववज्जले चतुष्कोणचक्रं विलिख्य तीर्थमावाह्य वामहस्ते जलं निधाय दक्षहस्तेनाच्छाद्य लं वं रं यं हं इत्यनेन त्रिरभिमन्त्र्य मूलमुच्चरंस्तत्त्वमुद्रया मूर्द्धनि सप्तधा मूलेन चाभ्युक्ष्य शेषजलं दक्षहस्तेन निधाय तेजोरूपं ध्यात्वा इडयाऽऽकृष्य देहान्तःपापं प्रक्षाल्य कृष्णवर्ण तज्जलं पापरूपं विचिन्त्य पिङ्गलया विरेच्य पुरः कल्पितवज्रशिलायां फडिति मंत्रेण निक्षिपेत् । ततोऽर्घ्यपात्रमुद्धृत्य ॐ ह्रां ह्रीं हं स: श्री (कुल) मार्तण्डभैरवाय प्रकाशशक्तिसहिताय इदमयं परिकल्पयामि नमः, इत्यनेन कुलसूर्याय त्रिरयं दत्वा स्वहृदयकमले देवीं सूर्यमण्डले नीत्वा तत्र विधिवद्ध्यात्वा मूलगायत्री पठेत्, धनदायै विद्महे रतिप्रियायै धीमहि ही तन्नः स्वाहा प्रचोदयात् इति विर्जप्त्वा गायत्रीमूलं च जपन् साङ्गायै सपरिवारायै सवाहनायै शक्तिसहितायै श्रीभुवनेश्वर्यै इदमध्ये परिकल्पयामि नमः स्वाहा, इत्यनेन मूलदेव्यै अयं दत्त्वा यथाशक्ति मूलं च जप्त्वा ततः प्राणायामऋष्यादिकरषडङ्गन्यासान् विधाय जपं समर्प्य सूर्यमण्डलाद्देवीतेजः स्वस्थाने समानयेत् ।। इति संध्या॥ ... अथतर्पणम् ।। पूर्ववदाचम्य प्राणायामऋष्यादिकरपडङ्गन्यासान् विधाय पुनस्तीर्थमावाह्य मूलेन जलं सप्तधाऽमृतमुद्रयाऽमृतीकृत्य तत्रजले मूलयन्त्र संस्थाप्य लिखित्वा तत्र देवीं स्वहृदयात् सपरिवारामानीय पडङ्गमंत्रयोगेन सकलीकृत्य कुण्डलिन्याः प्रयोगेणामृतेनाभिषिञ्च्य विधिवद्गन्धादिभिः सम्पूज्य गुरु तर्पयेत्, . ऐशान्यां ॐ ऐं ह्रीं श्रीं श्रीमच्छी अमुकानंदनाथस्तृप्यतामित्यनेन त्रिसन्तर्य, ... आग्नेय्यां ॐ ऐं ह्रीं श्रीं परमगुरुस्तृप्यतामिति त्रिनैऋत्यां ॐ ऐं ह्रीं श्रीं परापरगुरु.: स्तृप्यतामिति निर्वायव्यां ॐ ऐं ह्रीं श्रीं परमेष्ठिगुरुस्तृप्यतामिति त्रिःपरितः ॐ ऐं ह्रीं श्रीं दिव्यौधा गुरवस्तृप्यन्तामिति त्रिः ॐ ऐं ह्रीं श्रीं सिद्धौघा गुरवस्तृप्यन्तामिति त्रि: ॐ ऐं ह्रीं श्रीं मानवौधा गुरवस्तृप्यन्तामिति त्रिः सन्तर्य पुनरपि पूर्वोक्तप्रकारेण मूलदेवीं त्रिधा संतर्प्य यंत्रो क्तपरिवारान् क्रमेण संतर्य प्राणायामऋष्यादिकरपडङ्गन्यासान् विधाय मूलदेवी विसृज्य स्वहृदि संस्थाप्य तीर्थं च स्वस्थाने सूर्यमण्डले विसर्जयेत् ।। इति तर्पणम् ॥ अथ गृहागमनम् ।। यागगेहमागत्य जलादिना द्वारदेवताः प्रोक्ष्य गन्धाक्षतादिभिः पूजयेत्, दक्षे ॐ धं धात्रे नमः, वामे ॐ विं विधात्रे नमः, दक्षे ॐ गं गङ्गायै नमः, वामे ॐ यं यमुनायै नमः, ऊध्वे ॐ ग्लौं गणपतये नमः, ॐ श्रीं द्वारश्रियै नमः,
SR No.010619
Book TitleBhuvaneshvari Mahastotram
Original Sutra AuthorN/A
AuthorJinvijay, Gopalnarayan Bahura
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages207
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy