SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ .. . पूजापद्धतिः... ४७ कमजपाजपं - मूलाधारस्वाधिष्ठानमणिपूरकानाहतविशुद्धाज्ञाब्रह्मरंधेषु चतुर्दलषड्दलदशदलद्वादशदलषोडशदलद्विदलसहस्रदलेषु स्वर्णविद्मनीलपिङ्गलधूम्रविद्युस्कर्पूरवर्णेषु । स्थिताभ्यो . गणपतिब्रह्मविष्णुरुद्रजीवात्मपरमात्मश्रीगुरुपादुकाभ्यो ... यथाभागशः समर्पयामि नमः । षट्शतं गणनाथस्य षट्सहस्रं पितामहे । षट्सहस्रं गदापाणौ षट्सहस्रं पिनाकिने ।। १ ॥ सहस्रमात्मने दद्यात् सहस्रं परमात्मने । सहस्रं गुरवे दद्याद् एतत् संख्यासमर्पणम् ॥ २॥ . इति संकल्पं कृत्वा समर्पयेत्, यथा-ॐ ऐं ह्रीं श्रीं मूलाधारचक्रस्थाय महागण- पतये अजपाजपानां षट्शतानि समर्पयामि नमः । ॐ ऐं ह्रीं श्रीं स्वाधिष्ठानचक्रस्थाय ब्रह्मणे अजपाजपानां षट्सहस्राणि समर्पयामि नमः । ॐ ऐं ह्रीं श्रीं मणिपूरचक्रस्थाय विष्णवे अजपाजपानां षट्सहस्राणि समर्पयामि नमः । ॐ ऐं ह्रीं श्रीं अनाहतचक्र. स्थाय रुद्राय अजपाजपानां षट्सहस्राणि समर्पयामि नमः । ॐ ऐं ह्रीं श्रीं विशुद्धि चक्रस्थाय जीवात्मने अजपाजपानां सहस्रमेकं समर्पयामि नमः । ॐ ऐं ह्रीं श्रीं - आज्ञाचक्रस्थाय परमात्मने अजपाजपानां सहस्रमेकं समर्पयामि नमः । ॐ ऐं ह्रीं श्रीं सहस्रदलकमलकर्णिकामध्ये वर्तिन्यै श्रीगुरुपादुकायै अजपाजपानां सहस्रमेकं समर्पयामि नमः । इत्यजपाजपं समर्प्य अजपामन्त्रेण प्राणायाम विधाय संकल्पं कुर्यात् "ॐ अस्य श्रीअजपानामगायत्रीमंत्रस्य हंसऋषिरव्यक्तगायत्री छन्दः श्रीपरमहंसो देवता हं बीजं सः शक्तिः सोहं कीलकं ॐकारतत्वं नभः स्थान हैमो वर्ण उदात्तस्वरो मम मोक्षार्थे जपे विनियोगः ।” इति कृताञ्जलिः स्मृत्वा न्यासं कुर्यात्, ऐं ह्रीं श्रीं हंसात्मने ऋषये नमः शिरसि, अक्तगायत्रीछन्दसे नमो मुखे, श्रीपरमहंस देवतायै नमो हृदि, हं वीजाय नमो गुह्ये, सः शक्तये नमः पादयोः, सोहं कीलकाय ... नमो नाभौ, ॐ कार तत्त्वाय नमो हृदये, उदात्तस्वराय नमः कण्ठे, नभसे स्थानाय _ नमो मूर्द्धनि, हेमाय वर्णाय नमः सर्वाङ्गे, इति विन्यस्य करषडङ्गन्यासौ च कुर्यात् - ॐ ऐं ह्रीं श्रीं इसां सूर्यात्मने अङ्गुष्ठाभ्यां नमः, ॐ ऐं ह्रीं श्रीं इसी सोमात्मने तर्जनीभ्यां स्वाहा, ॐ ऐं ह्रीं श्रीं ह्र निरञ्जनात्मने मध्यमाभ्यां नमः वषट्, ॐ ऐं ह्रीं श्रीं हसैं निराभासात्मने अनामिकाभ्यां हु, ॐ ऐं ह्रीं श्रीं इसौं तनुसूक्ष्माप्रचोदयात्मने कनिष्ठिकाभ्यां वौषट्, ॐ ऐं ह्रीं श्रीं हसः अध्यक्तबोधात्मने करतल
SR No.010619
Book TitleBhuvaneshvari Mahastotram
Original Sutra AuthorN/A
AuthorJinvijay, Gopalnarayan Bahura
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages207
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy