SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ पटल: रविलक्षं जपेन्मंत्रं पायसैर्मधुराप्लुतैः । दशांशं जुहुयान्मंत्री पीठे प्रागीरिते यजेत् ॥ ६५ ॥ देवीं प्रागुक्तमार्गेण गन्धाद्यैरतिशोभनैः । 'हुत्वा पलाशकुसुमैः वाक्श्रियं महतीं व्रजेत् ।। ६६ ।। ब्राह्मीघृतं पिबेज्जप्तं कवित्वं वत्सराद्भवेत् । सिद्धार्थं लवणोपेतं हुत्वा मंत्री वशं नयेत् ॥ ६७ ॥ नरं नारीं नरपतिं नात्र कार्या विचारणा । चतुरङ्गुलजैः पुष्पैश्चन्दनादभस्मसूक्षितैः' ।। ६८ ।। हुत्वा वशीकरोत्या त्रैलोक्यमपि साधकः । जुहुयादरुणाम्भोजैरयुतं मधुराप्लुतैः ॥ ६६ ॥ राजा श्रियमवाप्नोति शालि जैस्तन्दुलैस्तथा' । प्रागुक्तान्यपि कर्माणि मंत्रेणानेन साधयेत् ॥ ७० ॥ वाग्बीजपुटिता माया विद्येयं त्र्यक्षरी मता । मध्येन दीर्घयुक्तेन वाक्पुटितेन कल्पयेत् ॥ ७१ ॥ अङ्गानि जातियुक्तानि क्रमेण मंत्रवित्तमः । यथा पुरा समुद्दिष्टं न्यासं कुर्वीत मन्त्रवित् ॥ ७२ ॥ श्यामाङ्गीं शशिशेखरां निजकरैर्दानं च रक्तोत्पलं रक्ताढ्य ं चषकं वरं भयहरं संविभ्रतीं शाश्वतीम् । मुक्ताहारलसत्पयोधरनतां नेत्रत्रयोल्लासिनीवन्देऽहं सुरपूजितां हरवंधूं रक्तारविन्दस्थिताम् ॥ ७३ ॥ तत्वलक्षं जपेन्मंत्रं जुहुयात्तदशांशतः । पलाशपुष्पैस्तद्वक्त्रैः पुष्पैर्वा राजवृक्षकैः ॥ ७४ ॥ हुल्लेखाविहिते पीठे पूजयेत् परमेश्वरीम् ॥ मध्यादि पूजयेन्मन्त्री हुल्लेखाद्याः पुरोदिताः ॥ ७५ ॥ मिथुनानि यजेन्मन्त्री षट्कोणेषु यथा पुरा । अंगपूजा केसरेषु पूज्याः पत्रेषु मातरः ॥ ७६ ॥ : चन्दनाम्भः समुक्षितैः । २. राज्यश्रियमवाप्नोति सतिलैस्तण्डुलैस्तथा । ३. वाक्पुटेन प्रकल्पयेत् । ४. परं । २. स्वाद्वक्तैः । [ ३६
SR No.010619
Book TitleBhuvaneshvari Mahastotram
Original Sutra AuthorN/A
AuthorJinvijay, Gopalnarayan Bahura
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages207
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy