SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ प्रबोधिनीटीकासहितम् इदानीं ' विशिष्टवर्णमयवपु र्ध्यानान्तरेण फलान्तरमाह मायाबीजविदर्भितं पुनरिदं श्रीकूर्मचक्रोदितं दीपाम्नायविदो जपन्ति खलु ये तेषां नरेन्द्राः सदा । सेवन्ते चरणौ किरीटवल भीविश्रान्तरत्नाङ्कुर ज्योत्स्ना मेदुरमेदिनीतल रजोमिश्राङ्गरागश्रियः ॥ २७ ॥ मायेति - हे जननि ! पुनरिदं तव वर्णमयं वपुः मायाबीजविदर्भितं मायावीजेन गुम्फितं तत् पुनश्च श्रीकूर्मचक्रोदितं ये जनाः दीपाम्नायविदः सततं जपन्ति खलु निश्चयेन तेषां पुरुषाणां सदा नित्यं नरेन्द्राः राजानः चरणौ सेवन्ते, किम्भूताः नरेन्द्राः किरीटवलभी विश्रान्तरत्नाङ्कुरज्योत्स्नामे दुरमेदिनीतल रजोमिश्राङ्गरागश्रियः किरीटानां मुकुटानां वलभ्यः किञ्चिदुच्चैरं कुराकृतयः तत्र विश्रान्तानि निविष्टानि यानि रत्नानि तेषां अंकुरा: ज्योत्स्नाकिरण कान्तिः तथा मेदुरं सुस्निग्धं दीप्तिसंयुक्तं यत् मेदिनीतलरजः महीतल रेणुः तेन मिश्रा अङ्गरागश्रीर्येषां ते तथा । दीपाम्नाय इति अष्टकोष्ठानालिख्य सृष्टिक्रमेणैव कोष्ठे कोष्ठे खराणां अकारादीनां द्वन्द्वमालिख्य ततः कादीन् समुदायरूपान् वर्णानालिख्य च यत्र कोष्ठे स्थानाधिपतेर्ग्रामाधिष्ठातृदेवतायाः नाम्नः प्रथमाक्षरं यत्र भवति तत्र तत्र देशे भूत्वा मायाबीजविदर्भितं मायाबीजेन ह्रींकारेण गुम्फितं मातृकामयं " वपुः शरीरं जपन्ति ते दीपानायविद उच्यन्ते तथा चोक्तम् १० [ १६ द्वन्द्व' स्वराणां विलिखेच्च पूर्व, कादींस्तथा वर्णसमूहरूपान् । स्थानाधिपस्याक्षरमस्ति यत्र, तं दीपदेशं मुनयो वदन्ति ॥ इदानीं भगवत्याः पुनर्वर्णमयशरीरस्य प्रकारान्तरतो ध्यानान्तरेण फलान्तरमाह श्रीबीजं सकलाक्षरादिषु पुनः क्रोधातरान्ते भवे १२ देवं यो भजते च ते तनुमिमां तस्याऽग्रतो जाग्रती । १ ख श्रथ । २. ख, वपुपो । ३. ख. सत् । ४. ख. ग. श्रीकूर्मचक्रे उदितं । ५. ख, सन्तो । ६, ख सन्निविष्टानि । ७ ख कोष्टेषु । ८ ख स्वरानकारादीनालिख्य । ६. ख. ग. ग्रामाधिष्ठान देवतायाः । १०. ख. विदर्भ क्रमेण युतं । ११. ख, मायामयं । १२. ख, ग, भजतेऽम्ब ! ते । 4
SR No.010619
Book TitleBhuvaneshvari Mahastotram
Original Sutra AuthorN/A
AuthorJinvijay, Gopalnarayan Bahura
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages207
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy