SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ १४ ] भुवनेश्वरीमहास्तोत्रम् इदानीं भगवत्याराधनफलमाहतत्सारखतसार्वभौमपदवी सद्यो मम द्योततां यत्राज्ञाविहितैर्महाकविशतैः स्फीतां गिरं चुम्यताम् । चैत्रोन्मीलित केलिकोकिल कुहूकारावताराश्चित श्लाघासिञ्चित 'पञ्चमश्रुतिसमाहारोपि भारोपमः ॥ १८ ॥ तदिति-हे जननि ! तत् कारणात् सद्यः तत्कालं मम सारस्वत सार्वभौमपदवी द्योततां अपीति निश्चितं यत्र यस्यां सार्वभौमपदव्यां गिरं चुम्बतां वाणीं शृण्वतां पुरुषाणां एवं विधः श्रुतिसमाहारोपि भारोपमः स्यात्, एवमिति किं चैत्रोन्मीलितकेलिकोकिलकुहूकारावताराचितश्लाघासिश्चित पञ्चमश्रतिसमाहारः चैत्रे वसन्ते उन्मीलित केलयो ये कोकिलाः तेषां ये कुहूकारावताराः तैः श्विता प्राप्ता या श्लाघा स्तुतिः तया सिंचितो" वर्द्धितो यः पञ्चमश्रतिसमाहारः सोपि भाररूपो भवति । किम्भूतां गिरं महाकविशतैः स्फीतां प्रौढीकृतां किम्भूतैर्महाकविशतैः श्राज्ञाविहितैः महाप्रबन्धे आर्यादिच्छन्दसि यत्र गुरुर्विलोक्यते तत्र गुरुरेव यत्र लघुर्विलोक्यते तत्र लघुरेवेति या आज्ञा तया विहिताः प्रेरिताः तैः ॥ १८ ॥ ७ इदानीं भगवत्या मन्त्रगर्भितं 'ध्यानान्तरमाहवाग्बीजं भुवनेश्वरीं वद वदेत्युच्चार्य वाग्वादिनी' स्वाहा वर्णविशीर्णपातकभरां ध्यायामि नित्यां गिरम् । पुस्तक मत सूत्रवलयं व्याजृम्भमम्भोरुहं विभ्राणामरुणांशुभिः करतलैराविर्भवद्विभ्रमाम् ॥ १६ ॥ १३ वागिति–अहं नित्यां'' बागीश्वरीं ध्यायामि किं कृत्वा इति उच्चार्य इतीति किं. वाग्बीजं ऐंकारं भुवनेश्वरीं" हीकारं वद वद वाग्वादिनि स्वाहा इति । किम्भूतां गिरं वर्णविशीर्णपातकभरां वर्णैरिति मन्त्राक्षरैर्विशीर्णो दूरीकृतः पातकभरो यया सा तथा ताम् । पुनः किम्भूतां गिरं करतलैश्चतुर्भिः पाणितलैः बीणां पुस्तकं अक्षमूत्रवलयं १. ख, ग, सञ्चित । ४. ग. पुंस्कोकिलाः । ७. ख. विहितैः प्रेरितैः । ११, ख. नित्यां गिरं । १२. २. ग. सारस्वतसार्वभौमपदव्यां । ३. खतां । ५. ख. ग. सचितो । ६. ख. भारोपमो । ग मन्त्रान्तर्गर्भितं । ६ ख वाग्वादिनि । १० ख. वीणां । 'मायावीज' इति 'ख' प्रतौ विशेषः | १३ ख चान्वादिनि ।
SR No.010619
Book TitleBhuvaneshvari Mahastotram
Original Sutra AuthorN/A
AuthorJinvijay, Gopalnarayan Bahura
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages207
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy