SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ १०] भुवनेश्वरीमहास्तोत्रम् येन सारस्वतेन सारोज्झितः स्यात् गतसत्त्वो भवेत् नीरसः स्यात्, कोऽसौ, वीणा-:भङ्गितरङ्गितस्वरचमत्कारः वीणा प्रसिद्धा तस्याः या भङ्गिः तन्त्रीरचनाविशेषः तया . . तरङ्गितः उन्नादितोऽभित उत्पादितो' यः स्वराणां निषादादीनां चमत्कारः चमत्करणं स नीरस इति सम्बन्धः, कासां उद्दामवामध्रुवां अमरवरसुन्दरीणां किल्लक्षणानां वामझुवां नन्दनचारुचन्दनतरुच्छायासु पुष्पासवस्वैरास्वादनमोदमानमनसां नन्दने बने ये चारुचन्दनतरवः मनोहरचन्दनवृक्षाः तेषां छायासु विषये पुष्पाणामासवस्य' .. मकरन्दस्य स्वैरं स्वेच्छया यदास्वादनं तेन मोदमानानि सहर्षाणि मनांसि यासां. तास्तथा तासाम् ॥ ११ ॥ इदानीं भगवत्या वक्ष्यमाणश्लोकेन वीजत्रयस्य स्थानान्याहआधारे हृदये शिखापरिसरे संधाय मेधामयीं _त्रेधा बीजतनूमनूनकरुणापीयूषकल्लोलिनीम् । त्वां मातर्जपतो निरङ्कुशनिजातामृतास्वादन प्रज्ञाम्भश्चुलुकैः स्फुरन्तु पुलकैरङ्गानि तुङ्गानि मे ॥ १२ ॥ आधार इति-हे मातःलांवीजतत्त्वं जपतो मे मम अङ्गानि शरीरावयवाः तुङ्गानि उच्छ्वसितानि स्फुरन्तु उल्लसन्तु कैः पुलकैः रोमहर्पणैः किं कृत्वा उत्तरश्लोके वक्ष्यमाणं बीजत्रयं एषु त्रिषु स्थानेषु वेधा संधाय त्रिप्रकारमनुवध्य अनुवधनं विधाय, केषु केषु स्थानेषु आधारे आधारचक्रे, हृदये मानसे, शिखापरिसरे ब्रह्मरन् । किम्भूतैः पुलकैः निरंकुशनिजादै तामृतास्वादनप्रज्ञाम्भश्चुलुकैः निरंकुशं मर्यादारहितं निजस्य स्वस्य यत् अद्वैतामृतास्वादनं तत्र यत् प्रज्ञाम्भो ज्ञानजलं तस्य चुलुकैः । किम्भूतां त्वां मेधामयी. मेधास्वरूपां पुनः किम्भूतां अनूनकरुणापीयूषकल्लोलिनी .. अनूनमनवरतं यत् करुणापीयूषं दयाऽमृतं तस्य कल्लोला लहयों विद्यन्ते यस्यां सा .. तथा ताम् ॥ १२ ॥ अथेदानी वीजत्रयस्य ध्यानफलमाहवाणीबीजमिदं जपामि परमं तत्कामराजाभिधं मातः सान्तपरं विसर्गसहितौकारोत्तरं तेन मे। १. ख. उत्थापितो। २. ख. श्रासवस्तस्य । ३. ख, ध्यानमाह; ग. वीजत्रयध्यानस्य . स्थानान्याह। ४. ख. ग. बीजतनू । ५. 'संधाय सन्निधीकृत्य' इति 'ख' पुस्तके विशेषः । ६. ख. ग. अनूनं घनतरं । ७. ख. यत् करणापीयूपं तेन कल्लोलिनी तरङ्गवतीमित्यर्थः ।
SR No.010619
Book TitleBhuvaneshvari Mahastotram
Original Sutra AuthorN/A
AuthorJinvijay, Gopalnarayan Bahura
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages207
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy