SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ प्रबोधिनीटीकासहितम् विकासिपुण्यमतयः त्वत्कारुण्येन त्वत्करुणया विकाशिनी' प्रकाशशीला उन्मीलयन्ती पुण्या पवित्रा मतिर्यासां तास्तथा । किम्भूता त्वं धृतिमयी धृतिरेकार. स्तन्मयी', अपरं किम्भूता त्वं नादैकरेखामयी नादशब्देनात्र उकारो गृह्यते तस्य एका रेखा चन्द्रकला तन्मयी, पुनः किम्भूता प्राणमयी प्राणो हकारस्तन्मयी, पुनः किम्भूता हुताशनमयी हुताशनो रेफस्तन्मयी, पुनः किम्भूता विन्दुप्रतिष्ठामयी विन्दु... - रनुस्वारस्तस्य प्रतिष्ठा प्रारोपणं तन्मयी ह्रीं इति भवति मनुः । इह धृतिमयीत्यादिषु सर्वविशेषणेषु स्वरूपार्थे मयड्विधार्थाभिधानम् ।। ४ ।। . अथेदानी यन्त्रोद्धारमाहत्वामश्वत्थदलानुकारमधुरामाधारबद्धोदरा .. संसेवे भुवनेश्वरीमनुदिनं वाग्देवतामेव ताम् । तन्मे शारदकौमुदीपरिचयामोदं सुधासागर स्वरोजागरवीचिविश्नमजितो दीव्यन्तुं दिव्या गिरः ॥ ५॥ त्वामिति-हेजननि ! अनुदिनं दिन दिन अनुलक्ष्यीकृत्य तां त्वां वाग्देवतामेव - भुवनेश्वरी संसेवे सम्यगाराधयामि । ततःकारणात् मे मम दिव्या गिरो वाण्यः दीव्यन्तु क्रीडन्तु । किम्भूता गिरः शारदकौमुदीपरिचरामोदं ( परिचयोदश्चत् ) सुधासागरस्वैरोज्जागरवीचिविभ्रमजितः शरदि भवा शारदी, शारदी चासौ कौमुदी च शारदकौमुदी इत्यत्र स्त्रियाः पुचद्भाषितपुंस्कादिति पुंबद्भावे पूर्वपदस्य लोपः' - तस्यायं परिचयः परिदर्शनं१ तेन उदञ्चदुद्वेलीभवत् १२ सुधासागरः पीयूषवारि धिस्तस्य स्वैरं स्वेच्छया या उज्जागराः शब्दायमाना वीचयो लहर्यस्तासां . . यो विभ्रमो विलासस्तं जयन्तीति तथा किम्भूतां त्वां अश्वत्थदलानुकारमधुरां अश्वत्थदलानुकारेण पिप्पलदलसदृशतया मधुरां त्रिकोणमधुरा मित्यर्थः । आधार. बद्धोदगं आधारे" षट्कोणेन बद्धोदरां रचितनिलयां एतावता पूर्व त्रिकोणमालिख्य १. ख. विकाशी। २. ग. उन्मीलन्ती। ३. ख. तिर्धारणावतीबुद्धिस्तन्मयी । १. ग. तिरीकारस्तन्मयी। ५. ख. नादशब्देन अनुस्वारो विधीयते, ग. ओंकारो विधीयते । ६. ख. तिमय्यादिविशेषणेषु मयविधानं तत्तन्मयत्त्वज्ञापनार्थम् । ७. ख. यन्त्रोद्धारणमाह । ८. ग. बद्धोदरीं । ६. ख. ग. परिचयोदञ्चत्सुधासागर । १०. ख. दिनंदिनमदुर्लभीकृत्य । ११: ख. तस्या यः परिचयो दर्शनम् । १२. ख. यः । १३. ख. मनोहरा; ... ग. त्रिकोणेन मनोहरामित्यर्थः । १४. ख. ग. प्राधारेण ।
SR No.010619
Book TitleBhuvaneshvari Mahastotram
Original Sutra AuthorN/A
AuthorJinvijay, Gopalnarayan Bahura
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages207
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy