SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ १४८ ] पृथ्वीधराचार्यपद्धती ___ इत्थं नित्यहोमं विधाय वलिदानं कुर्यात् । तद्यथा-यन्त्रस्याये दक्षपृष्ठवामभागेषु भूविम्बवृत्तपटकोणत्रिकोणात्मकान् मण्डलचतुष्कान् विरच्य साधारं पात्रचतुष्टयं संस्थाप्य तेषु क्रमेण बटुकयोगिनीगणेशक्षेत्रपालान् यजेत् । वां वटुकाय नमः। यां योगिनीभ्यो नमः । गं गणेशाय नमः । क्षा क्षेत्रपालाय नमः । एक चेत् पात्रं तस्मिन्नेव चतुरो यजेत् । तत्त शहादुत्तरतः संस्थाप्य कलशस्थहेतुनाऽऽपूर्य प्रथमाद्वितीयायुक्तचरक गृहीत्वा मुख्यदेवताबलिं दद्यात् । तद्यथा-ततो देव्याः पुरतश्चतुरस्र त्रिकोणं मण्डलं विधाय तस्योपरि 'ऐं ह्रीं श्रीं भुवनेश्वरि इमं वलिं गृह्ण गृह्ण स्वाहा' वलिदानोपरि अंगुष्ठानामिकाभ्यां योगेन विशेषाद्यपात्रस्थद्रव्येण धारां दत्वा दीपं गन्धपुष्पाक्षतादीन् समर्पयेत् । ततो देव्याः पश्चिमे 'ॐ हीं वां एहि एहि देविपुत्र बटुकनाथ पिङ्गलजटाभारभासुर त्रिनेत्र ज्वालामुख मम सर्वविघ्नान्नाशय नाशय मम ईप्सितं कुरु कुरु इमं सर्वोपचारसहितं वलिं गृह्ण गृह्ण हुं फट् स्वाहा' इत्यनेन सदीपं चरुक गन्धाक्षतपुष्पसहितं बटुकाय निवेद्य तत्पात्रस्थद्रव्येण वामतर्जन्यंगुष्ठाभ्यां धारां पातयन् ध्यायेत् । या काचिद्योगिनी रौद्रा सौम्या घोरतरा परा। ___ खेचरी भूचरी व्योमचरी प्रीतास्तु मे सदा ॥ पूर्वे । एलां ग्लीं ग्लू ग्लैं ग्लौं ग्लः गणपते एहि एहि मम विघ्नं नाशय . मम ईप्सितं कुरु कुरु इमं वलिं गृह्ण गृह्ण स्वाहा' इत्यनेन सदीपं चरुकं गन्धाक्षतपुष्पसहितं गणेशायदत्वा तत्यानस्थद्रव्येणयामेनाङ्गष्ठयोगेन धारां. पातयन् ध्यायेत् थीजापूरगदेक्षुकार्मुकयुजा चक्राजपाशोत्पलं ब्रीह्यग्रस्वविषाणरत्नकलशप्रोद्यत्कराम्भोरुहः । ध्येयो वल्लभया च पद्मकरया श्लिष्टस्त्रिनेत्रो विभुः विश्वोत्पत्तिविनाशसंस्थितिकरोऽविघ्नो विशिष्टार्थदः ॥ दक्षिणे । 'क्षांक्षी च क्षौं क्षा हुं स्थानक्षेत्रपाल मुकुटखपरमुण्डमालाभूषण : महाभीषणरूपधर वर्वरकेश - जय जय दिगम्बर महाभृतपरिचारसंत्रासकर अग्मिनेत्र . मद्यपानमदोन्मत्त त्रिशूलायुधधर शृङ्गीवादनतत्पर एहि एहि मम वितं नाशय नाशय-.अमुकं दुष्टं खादय खादय मम ईप्सितं कुरु कुरु इमं वलिं गृह्ण गृह्ण हुं फट् स्वाहा' .
SR No.010619
Book TitleBhuvaneshvari Mahastotram
Original Sutra AuthorN/A
AuthorJinvijay, Gopalnarayan Bahura
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages207
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy