SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ १३०] पृथ्वीधराचार्यपद्धतौ कर्पूरागुरुकस्तूरीश्रीखण्डकुङ्कमेन च । लिखेद्यन्त्रं प्रयत्नेन लेखन्या हेमतारयोः ॥ एवं यन्त्रं शोभनं कृत्वा स्वर्णरौप्याद्यभावे गोमयेनोपलिप्तायां भृमौ. पीठं समचतुरस्त्रं चतुर्विंशतिभिः पोडशभिः द्वादशभिरङ्गुलैः परिमितं उत्तमं मध्यमं कनिष्ठं कर्परागुरुकस्तूरीश्रीखण्डकुंकुमादिना चतुरस्त्रं पोडशदलं अष्टदलं पट्कोणं त्रिकोणं विन्दुं विलिख्य राज्यभोगवासनाकामेन हेमलेखन्या लिखेत् । दूरसेन मृत्युजयति । कनकरसेन शत्रु जयति । स्तम्भनं हरिदारसेन । तत्र लेखनीनियमः । पालासजातिविटपसारस्वतकाकपक्षादि साम्राज्यकामः सुवर्णरजतोद्भवया ..... सामान्यसमृद्धिकामः रक्ताश्वत्थं मार्जारास्थ्ना वश्यं प्राकृष्टिप्रयोगे रक्तचन्दनं स्तम्भने ... हरिद्रालेखन्या लिखेत् । एवं यन्त्रोद्धारं विधाय । तत्र देवीं पूजयेत् । तदुक्तं स्मृतौ यन्त्रं देवमयं प्रोक्तं देवता यन्त्ररूपिणी । कामक्रोधादिदोषोत्थसर्वदुःखनिम ( य )न्त्रणात् ।। यन्त्रमित्याहुरेतस्मिन् देवः प्रीणांति पूजितः। शरीरमिव जीवस्य दीपस्य लहवत् प्रिये ॥.. सर्वेषामपि देवानां तथा यन्त्रं प्रतिष्ठितम् । ज्ञात्वा गुरुमुखात् सर्वं पूजयेद् विधिना प्रिये ॥ अत उद्धारप्रामाण्येन यन्त्रोद्धारं कृत्वा पूजामारभेत् । तत्रादौ मण्डपार्चनम् । ततो देवतागारं मनोहरं सुधूपितं वहुदीपविराजितं कृत्वा, पुष्पं गृहीत्वा ऐं श्रीं ह्रीं भुवनेश्वरीमण्डपाय नम इति पुष्पाक्षताादभिः सम्पूज्य द्वारपूजामारभेत् । मूलमन्त्र-... मुच्चार्य शुद्धोदकेन चतुरात् संप्रोक्ष्य द्वारदेवताः पूजयेत् । 'ऐं ह्रीं श्रीं द्वारश्रियै नमः इति द्वारे सम्पूज्य ऊध्वोदुंबरमध्ये ऐं ह्रीं श्रीं गं गणपतये नमः । ऐं ह्रीं श्रीं सां सरस्वत्यै नमस्तस्कोणयोः । ऐं ह्रीं श्रीं क्षा क्षेत्रपालाय नमः, ऐं ह्रीं श्रीं वां ... वटुकाय नमः, ऐं ह्रीं श्रीं धां धात्रे नमः, ऐं ह्रीं श्रीं विधात्रे नमः, ऐं ह्रीं श्रीं गां गङ्गायै नमः, ऐं ह्रीं श्रीं यां यमुनायै नमः, ऐं ह्रीं श्रीं शं शङ्कनिधये नमः ऐं ह्रीं श्रीं पं पद्मनिधये नमः, ऐं ह्रीं श्रीं डाकिनीभ्यो दक्षशाखायाम, ऐं ह्रीं . श्री शाकिनीभ्यो वामशाखायाम्, ऐं ह्रीं श्रीं दें देहल्यै नमो. देहल्याम, ऐं . वीं श्रीं वास्तुपुरुषाय नम इति मण्डपाभ्यन्तरे सम्पूज्य । एवं द्वाराणि पूजयित्वा
SR No.010619
Book TitleBhuvaneshvari Mahastotram
Original Sutra AuthorN/A
AuthorJinvijay, Gopalnarayan Bahura
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages207
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy