SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ भुवनेश्वरीक्रमचन्द्रिका [ १२७ प्रतिदिनमपि कुर्याद् यस्तु न्यासेन वैकं नृपतिसदनमान्यो योषितां कर्षमायात् । अपि च कमलवासा सुस्थिरा तस्य वेश्म न्यहरहरपि वृद्धिं याति विश्वोपकर्तुम् ॥ इतिमातृकान्यासफलम् । ततः प्राणायामत्रयं कुर्यात् । तस्य लक्षणम् । इडया पूरयेद् वायुं स्वरैर्वणैश्च कुम्भयेत् । रेचयेद् यादिकवणैस्ततः पिङ्गलया सह ।। इडा च वामनासास्था पिङ्गला दक्षिणेन तु । इडापिङ्गलयोर्मध्ये सुषुम्णा रन्ध्रवाहिनी ॥ . इत्थं प्राणायामत्रयं अथवा मूलेन कुर्यात् । तत्रादौ कवचं पठित्वा । ... अस्य श्रीएकाक्षरभुवनेश्वरीमन्त्रस्य शक्तिऋषये नमः शिरसि । गायत्री छन्दसे नमो मुखे । श्रीभुवनेश्वरीदेवतायै नमो हृदये। हं बीजाय नमो गुह्ये । ई शक्तये नमः - पादयोः । रं कीलकाय नमः सर्वाङ्गेषु । श्रीभुवनेश्वरीप्रीत्यर्थं जपे विनियोगः।। .. अथ हल्लेखादिन्यासः । ॐ ह्रीं हल्लेखायै नमो मूर्ध्नि । ॐ हौं गगनायै नमो .. मुखे । ॐ हैं रक्तायै नमो हृदये । ॐ ह्रौं करालिकायै नमो गुह्ये । ॐ हः महोच्छुष्मायै : नमः पादयोः । इति हल्लेखादिन्यासः । .... अथ मूलमन्त्रपडङ्गः । ॐ ह्रां हृदयाय नमः अङ्ग ठयोः। ॐ ह्रीं शिरसे स्वाहा तर्जन्योः। ॐ ह शिखायै वषट मध्यमयोः। ॐ हैं कवचाय हुं अनामिकयोः । ___ ॐ ह्रौं नेत्रत्राय वौषट् कनिष्ठिकयोः। ॐ ह्रः अस्त्राय फट् करतलकरपृष्ठयोः । . इति षडङ्गः । ...... अथ सावित्र्यादिन्यासः। ॐ हां गायत्रीसहिताय ब्रह्मणे नमो भाले । ॐ ह्रीं सावित्रीसहिताय विष्णवे नमो दक्षकपोले । ॐ ह्र वागीश्वरीसहिताय महेश्वराय - नमो वामकपोले. । ॐ ह्रौं श्रिया सहिताय धनपतये . नमो, वामकर्णे । ॐ ह्रौं - रतिसहिताय स्मराय नमो मुखे । ॐ हं सिद्धिबुद्धिसहिताय गणपतये नमो दक्षकर्णे । । ॐ ह्रः भुवनेश्वर्यै नमो मुखे । इति सावित्र्यादिन्यासः।
SR No.010619
Book TitleBhuvaneshvari Mahastotram
Original Sutra AuthorN/A
AuthorJinvijay, Gopalnarayan Bahura
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages207
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy