SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ १२० ] श्रीपृथ्वीधराचार्यपद्धती उपपातकरोलाणं पातकोपाइसंश्रयम् । खङ्गचर्मधरं कृष्णं पापं अक्षौ विचिन्तयेत् ।। इत्यादि क्रमेण कुक्षौ पापपुरुषं ध्यात्वा तत्सहितस्य देहस्य शोषणादिकं कुयोत् । तद्यथा बामनासापुटे वायुमण्डलं तवीजयुक्त यं कादिमान्तैः स्पर्शवणैः सेवितं धूम्रवर्णं स्मृत्वा अं १६ मात्रापोडशकेन सम्पूर्य प्राणापानवायुभ्यां सह संयोज्य तदुत्थेनानिलेन सह शारीरैर्महापापै रोगैश्च सह संशोध्य द्वात्रिंशद्भिर्मात्राभिः ३२ कुम्भकं पोडशभिः १६ रेचकं ततो दाहनम् । दक्षनासापुटे वह्निमण्डलं तवीजयुक्त यादिदशभिर्य सेवितं विचिन्त्य प्राणापानवायुभ्यां सह संयोज्य तदुत्थेनानलेन च सह शारीरैर्महापापै रोगैश्च सह संदह्य पूर्ववत् । कुम्भकरेचकौ । ततः प्लावनम् । वामनासापुटे आप्यमण्डलं तद्वीजयुक्तं धवलं धनुराकारं षोडशस्त्रर १६ सेवितं विचिन्त्य पूर्ववत् सम्पूर्य आधारगतेन वायुना .. वह्निकुण्डलिनीमुत्थाप्य तस्या ज्वालासमुदायेन आप्लाव्यमानं ब्रह्मरन्ध्रन्दुमण्डलादमृतादाप्लाव्यमानं पूर्ववत् पूरककुम्भकरेचकाः । एवं शोषणदाहनप्लावनानि कृत्वा .. परस्मिन् शाम्भवे ब्रह्मणि स्वशरीरं तत्सारूप्यप्रतिविम्वितं वुवुदाकारं ध्यात्वा लं. पृथिवीवीजेन कठिनीकृत्य हं व्योमवीजेन विभिद्य भूतोत्पत्तिं विचिन्तयेत् । अक्षरात् खम् । आकाशाद वायुः। औषधिभ्यो अन्नम् । अन्नाद् रेतः । रेतसः पुरुष इति . . सृष्टिक्रमं विचिन्त्य । ॐ हं १२ ॐ हौं सदाशिवाय व्योमाधिपतये शान्त्यतीतकला- . त्मने हुं फट् स्वाहा इति ब्रह्मरन्ध्रभ्र मध्यपर्यन्तं व्याप्यं यं २४ ॐ अॅ. ईश्वराय वाय्वधिपतये शान्तिकलात्मने हुं फट् स्वाहा भ्र मध्याइ हृदयपर्यन्तं व्याप्यं रं ३६ .. ॐ ह्र अग्नये तेजोऽधिपतये विद्याकलात्मने हुं फट् स्वाहा हृदादिनाभिपर्यन्तं व्याप्यं .. वं ४८ ॐ ह्रीं विष्णवे अधिपतये प्रतिष्ठाकलात्मने हुं फट् स्वाहा नाभ्यादिजानुपर्यन्तं व्याप्यं लं ६० ॐ ह्रां ब्रह्मणे पृथिव्यधिपतये निवृत्तिकलात्मने हुं फट् स्वाहा । जान्वादिपादपर्यन्तं व्याप्यमिति क्रमेण द्वादशसंख्या समारभ्य पष्टिपर्यन्तं बर्द्धयन् सोऽहमित्युच्चार्य हृत्पदमे शिवात्मानं जीवं पट्त्रिंशत्तत्वरूपं स्मरेत् । तत एकविंशतिवारं मायां जपित्वा अङ्कशाकारतर्जन्या प्राणान् मूलाधाराद् ब्रह्मरन्ध्रान्ते प्राणप्रतिष्ठा... मन्त्रेण स्थापयेत् ।
SR No.010619
Book TitleBhuvaneshvari Mahastotram
Original Sutra AuthorN/A
AuthorJinvijay, Gopalnarayan Bahura
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages207
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy