SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ ११० ] श्रीपृथ्वीधराचार्यपद्धतौ. सरित्त्रयमनुस्मृत्य चरणत्रयमध्यतः। स्रवन्तं सच्चिदानन्दं प्रवाहं भावगोचरम् ।। विमुक्तिसाधनं पुंसां स्मरणादेव योगिनाम् । तेनाप्लावितमात्मानं भावयेदु भावशान्तये ॥ इडा गङ्गेति विख्याता पिङ्गाला यमुना नदी। . मध्ये सरस्वती ज्ञेया तत्प्रयागमिति स्मृतम् ।। ___ इति भावनाक्रमेणा-तरं स्नानं निवर्त्य बहिर्मन्त्रस्मानं कुर्यात् । तद्यथा-पूर्वाशाभिमुखो भूत्वा भूमिं गुरुञ्चाभ्यां मन्त्राभ्याम् प्रार्थयेत् धारणं पोषणं त्वत्तो भूतानां देवि ! सर्वदा। . तेन सत्येन मां पाहिं पाशान् मोचय धारिणि ! अखण्डमण्डलाकारं व्याप्तं येन चराचरम् । तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ एताभ्यां नमस्कृत्य नाभिमाने जले स्थित्वा जलमध्ये कनिष्ठया त्रिकोणं षट्कोणं अष्टदलं षोडशदलं चतुरआं लिखित्वा त्रिकोणमध्ये मूलबीजं विलिख्य । तीर्थ-... सूर्यमण्डलादङ्कशमुद्रया “ऐं हृदयाय नम" इति मन्त्रेणाकृष्य तीर्थे क्षिप्त्वा तत्र तीर्थ- . . मावाहयेत् । मन्त्र: ब्रह्माण्डोदरतीर्थानि करैः स्पृष्टानि ते रवे! तेन सत्येन मे देव ! तीर्थं देहि दिवाकर ! . गङ्गे च यमुने चैव गोदावरि सरस्वति ! नर्मदे सिन्धु कावेरि ! जलेऽस्मिन् सन्निधिं कुरु ॥ इमं मे गङ्गे यमुने......: इति । आवाहयामि तां देवीं स्नानार्थमिह सुन्दरि । एहि गङ्गे ! नमस्तुभ्यं सर्वतीर्थसमन्विते ॥ "ऐं ह्रीं श्रीं सर्वानन्दमये तीर्थशले एहि एहि स्वाहा' इति मन्त्रेणाङ्कशमुद्रया संयोज्याचाहनादिमु हाः प्रदर्श्य आवाहनी. १ स्थापनी २ सन्निरोधिनी ३ अवगुएठनी... ४ सम्मुखीकरणी ५ धेनुः ६. योनिः ७ एताः सप्त मुद्राः प्रदर्य पडङ्ग कुर्यात् ।
SR No.010619
Book TitleBhuvaneshvari Mahastotram
Original Sutra AuthorN/A
AuthorJinvijay, Gopalnarayan Bahura
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages207
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy