________________
पारष्टसारा ।
१०४]
भुवनेश्वरीपञ्चाङ्गम् अष्टाभिरुग्रविविधायुधवाहिनीभिर्दोल्लरीभिरधिरुह्य मृगाधिराजम् ।। दुर्वादलद्युतिरमर्त्य विपक्षपक्षान् न्यक्कुर्वती त्वमसि देवि ! भवानि ! दुर्गा ॥ १४ ॥ ... श्राविर्निदाघ जलशीकरशोभिवक्त्रां गुजाफलेन परिकल्पितहारयष्टिम् । पीतांशुकामसितकान्तिमनङ्गन्तन्द्रामाद्यां पुलिन्दतरुणीमसकृत् स्मगमि ।। १५ ।। हंसर्गतिक्वणितनपुरदूरदृष्टे मूतैरिवार्थवचनैरनुगम्यमानौ । पद्माविवोर्ध्वमुखरूढसुजातनाली श्रीकण्ठपनि ! शिरसा विदधे तयाधी ।। १६ ॥ द्वाभ्यां समीक्षितुमवृप्तिमतेव दृग्भ्यामुत्पाट्य भालनयनं वृपकेतनेन । सान्द्रानुरागतरलेन निरीक्ष्यमाणे जो शुभे अपि भवानि ! तवानतोऽस्मि ।। १७॥ ऊरू स्मरामि जितहस्तिकरावलेपौ स्थौल्येन मार्दवतया परिभृतरम्भौ । श्रोणीमरस्य सहनौ परिकल्प्य दत्तौस्तम्भाविवाङ्ग वयसा तब मध्यमेन ॥ १८ ॥ श्रोण्यौस्तनौ च युगपत् प्रथयिष्यतांचैर्याल्यात्परेण क्यसा परिहृष्टसारौ । रोमावलीविलसितेन विभाव्य मूर्ति मध्यं तव स्फुरतु मे हृदयस्य मध्ये ॥ १६ ॥ सख्यः स्मरस्य हरनेत्रहुताशशान्त्यै लावण्यवारिभरितं नवयौवनेन ।
आपाय दत्तमिव पल्लवमप्रविष्टं नाभिं कदापि तव देवि ! न विस्मरेयम् ॥ २० ॥ ईशेऽपि गेहपिशुनं भसितं दधाने काश्मीरकर्दममनुस्तनपङ्कजे ते । स्नातोत्थितस्य करिणः क्षणलक्ष्यफेनौ सिन्दरितो स्मरयतः समदस्य कुम्भौ ॥ २१ ॥ कण्ठातिरिक्तगलदुज्ज्वलकान्तिधाराशोभौ भुजौ निरिपोकर्मकरध्वजेन । कण्ठग्रहाय रचितौ किल दीर्घपाशौ मातर्मम स्मृतिपथं न विलङ्घयेताम् ॥ २२ ॥ नात्यायतं रचितकम्युबिलासचौर्यं भूपाभरेण विविधेन विराजमानम् । कण्ठं मनोहरगुणं गिरिराजकन्ये ! सञ्चिन्त्य तृप्तिमुपयामि कदापि नाहम् ।। २३ ॥ अत्यायताक्षमभिजातललाटपट्टम् मन्दस्मितेन दम्फुल्लकपोलरेखम् । विम्बाधरं वदनमुन्नतदीर्घनासं यस्ते स्मरत्यसकृदम्ब ! स एव जातः ।। २४ ॥
आविस्तुपारकरलेखमनल्पगन्धपुष्पोपरिभ्रमदलिबजनिर्विशेषम् । यश्चेतसा कलयते तव केशपाशं तस्य स्वयं गलति देवि पुराणपाशः ॥ २५ ॥ श्रुतिसुचरितपाकं श्रीमतां स्तोत्रमेतत् पठति य इह मो नित्यमार्टान्तरात्मा । स भवति पदमुच्चैः सम्पदां पादनम्रक्षितिपमुकुटलक्ष्मीलक्षणानां चिराय ॥ २६ ॥ .
इति श्रीरुद्रयामले तन्त्रे श्रीभुवनेश्वरीस्तोत्रं समाप्तम् ।