SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ श्रीगणेशाय नमः अथ श्रीभुवनेश्वर्यष्टकम् श्रीदेव्युवाच प्रभो श्रीभैरवश्रेष्ठ दयालो भक्तवत्सल । भुवनेशीस्तवम् ब्रूहि यद्यहन्तब वल्लभा ॥१॥ ईश्वर उवाच शृणु देवि ! प्रवक्ष्यामि भुवनेश्यष्टकं शुभम् । येन विज्ञातमात्रेण त्रैलोक्यमङ्गलम्भवेत् ॥ २ ॥ ॐ नमामि जगदाधारां भुवनेशी भवप्रियाम् । भुक्तिमुक्तिप्रदां रम्यां रमणीयां शुभावहाम् ॥ ३ ॥ त्वं स्वाहा त्वं स्वधा देवि ! त्वं यज्ञा यज्ञनायिका । त्वं नाथा त्वं तमोही व्याप्यव्यापकवजिता ॥४॥ त्वमाधारस्त्वमिज्या च ज्ञानज्ञेयं परं पदम् । त्वं शिवस्त्वं स्वयं विष्णुस्त्वमात्मा परमोऽव्ययः॥ ५ ॥ त्वं कारणञ्च कार्यञ्च लक्ष्मीस्त्वञ्च हुताशनः । त्वं सोमस्त्वं रविः कालस्त्वं धाता त्वञ्च मारुतः॥६॥ गायत्री त्वं च सावित्री त्वं माया त्वं हरिप्रिया । त्वमेवैका पराशक्तिस्त्वमेव गुरुरूपधृक् ॥ ७ ॥ त्वं काला त्वं कलाऽतीता त्वमेव जगतांत्रियः। . त्वं सर्वकार्य सर्वस्य कारणं करुणामयि ! ॥८॥ इदमष्टकमाद्याया भुवनेश्या वरानने। . . त्रिसन्ध्यं श्रद्धया मर्यो यः पठेत् प्रीतमानसः ॥६॥ सिद्धयो वशगास्तस्य सम्पदो वशगा गृहे । .... राजानो वशमायान्ति स्तोत्रस्याऽस्य प्रभावतः ॥ १० ॥
SR No.010619
Book TitleBhuvaneshvari Mahastotram
Original Sutra AuthorN/A
AuthorJinvijay, Gopalnarayan Bahura
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages207
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy