________________
२३२
० २० को०-उल्लास ४, परीक्षण ४. खण्डभुजादण्डयुगलेन ॥ ९७ ॥ भूमण्डलाखण्डलेन ॥ ९८ ॥ गजनरतुरगाधीशराजत्रितयतोडरमल्लेन ॥ ९९ ॥ वसुन्धरोद्धरणादिवराहेण ॥ १०० ॥ भवानीपतिप्रसादातापसावरप्रसादेन ॥ १०१ ॥ अनन्यमल्लीकगर्वखण्डनमुशलहस्तवलभद्रपराक्रमेण ... ॥ १०२ ॥ महाराजाधिराजमहाराणाश्रीमृगाकतामराजेन्द्रनन्दनेन ॥ १०३॥ श्रीमहा5 राज्ञीश्रीसौभाग्यवतीजसमास्विकाहृदयनन्दनेन ॥ १०४ ॥ विविधविज्ञानविज्ञचम
कारिचातुरीधुरीणसकलसीमन्तिनीशिरोमणिरूपलावण्यलजालक्ष्मीनिधानङ्गार सरसीशतराजकन्याप्रवरनिकुंभराजन्यवंशावतंसमहाराज्ञी-श्रीकर्मवतीलपुमादेवीहृद: याधिनाथेन ॥ १०५॥ श्रीमहाराजाधिराजकालसेन-महीमहेन्द्रेण विरचिते सगीतराजे पोडशसाहस्यां सङ्गीतमीमांसायां नृत्यरत्नकोशे प्रकीर्णकोल्लाले पात्रलक्षणं नाम 10 चतुर्थ परीक्षणं नृत्यरत्नकोशश्चतुर्थः समाप्ति समागादिति विततमतीनामभिमतसिद्धिरस्तु ॥ शुभं भवतु ॥ श्रीरस्तु ॥
॥ इति नृत्यरत्नकोशः समाप्तः॥