________________
नि० ७१६ सामायिकपदनिरूपणा ।
८३५ अहवा भवं समाए णिवत्तं तेण तम्मयं वा वि । जं तप्पयोअणं वा तेण व सामाइयं णेयं ॥४२०४॥
अहवा भवं समाए । अथवा भवार्थे प्रत्य(ये) समाये भवम् अथवा समायेन निवृत्तम् समायस्य वा विकारः तन्मयम् अथवा समायः प्रयोजनमस्येति सर्वत्र यथाऽभिप्रेतेऽर्थे 'ठक' । तेन सामायिकं ज्ञेयम् तव्यं वा ॥४२०४॥
भथवाऽन्यथा समशब्दः, आशयस्तथैवअहवा समाइं सम्मत्तणाणचरणाई तेसु तेहिं वा। अयणं अयो समायो स एव सामाइयं णाम ॥४२०५॥
अहवा समाई। ज्ञान-दर्शन-चारित्राणि समानि, तेषु अयः, तैः सर्वेः अयः समायः, स एव सामायिकमिति पूर्ववत् ॥४२०५॥
अहवा समस्स आयो गुणाण लाभो त्ति जो समायो सो। अधवा समाणमायो यो सामाइयं णाम ॥४२०६॥
अहवा समस्स आयो । समस्स(स्य) वा आयः समासुयो(समायो) गुणलामः, समानां वा दर्शनादीनामायः । समाय एव सामायिकमिति स्वार्थिकादि तथैव सर्वम् ॥४२०६॥
अधवा[२७६-द्वि०]सामं मेत्ती तत्थ अयो तेण व ति सामाओ । अधवा सामस्साओ लाभो सामाइयं णेयं ॥४२०७॥
अधवा सामं मेत्ती । अथवाऽन्य एवायं 'साम'शब्दः मैत्रीपर्यायः, साम प्रिय. वचन वा, तत्र अयः तेन वा अयः सामायः अथवा साम्नः आयो] लाभ सामायः, सामाय एव सामायिकम् ॥४२०७||
अथवासम्ममयो वा समयो सामाइयमुभयविद्धिभावाती । अधवा सम्मस्सायो लाभो सामाइयं होति ॥४२०८॥
सम्ममयो वा । अथवा 'अय वय" इत्यादिर्गस्यों धातुः, तस्य 'सम्'इत्युपसर्गः सम्यगर्थे, सम्यक् अयः समयः, अत्रापि स्वार्थिकादिप्रत्ययविधानम् , किन्तु उभयपदवृद्धिभावः । न्तु(नु) तस्य लक्षणं नास्ति पाणिनीयव्याकरणे, आपिस(श)ले
'भायशः' इति त प्रतौ । २ महाभाष्ये सर्वत्र 'आपिशल' 'भपिशला' 'भापिशलिः' इत्येवं तालव्यशकारयुक्त एव 'आपिशल शब्दो निर्दिष्टः-द्रष्टव्यो महाभाष्यशब्दकोशः ।