SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ ८२६ विशेषावश्यकभाष्ये [नि० ७२६जति तप्पज्जयणासो को दोसो होतु सव्वधा णस्थि । जं सो उप्पात-व्वय-धुवधम्माणंतपज्जाओ ॥४१६०॥ जति तप्पज्जयणासो इत्यादि । यदुक्तं सामायिकपर्यायनाशे आत्मनोऽपि नाशः प्राप्त इति दोषः कथम् ? आत्मा दा(ह्य)नन्तपर्यायः, तस्यैकपर्यायनाशे यदि तेनात्मना सामायिकरूपेण नाशः शेषपर्यायैरनाशस्तत [:] को दोषः ? सर्वथा नाशे दोषसम्भव इत्याचक्षाण आह-यस्मादसावात्मा उत्पाद-व्यय-ध्रुवधर्मानन्तपर्यायपरिणामः, तस्य केनचित् पर्यायेणोत्पादः, केनचिद् वा(व्य)यः केनचिद्वा अस्ति-मूर्तत्व-चेतनत्वादिना सर्वदा परिणामित्वाद् ध्रुवः ॥४१६०॥ ' न केवलमेवस्वरूप आत्मैव किन्तु-- सव्वं चिय पतिसमयं उप्पज्जति णासते य णिच्चं च । एवं चेव य मुह-दुक्ख-बन्ध-मोक्खातिसम्भावो ॥४१६१॥ सव्वं चिय इत्यादि । सर्वमेव आत्माऽऽकाशधर्माधर्मपुद्गलप्रकारं वस्तु प्रतिसमयमुत्पद्यते, व्येति, नित्यं च इति बहुशोऽपि भावितम् । एवमेव सर्वप्रधान(ना)भ्युपगतसुख-दुःख-बन्ध-मोक्षादिसद्भावः। आदिग्रहणात् सुख-दुःखानुभाविबद्ध-मुच्यमान-तत्कारणसद्भावे(वो)ऽपीति । यच्चोक्तमेकत्वे कारकसंकरदोष इति, सोऽपि न दोषः, तथा अभ्युपगमात् सिद्धसाधनमित्यर्थः ॥४१६१॥ एगं चेव य वत्थु परिणामवसेण कारगंतरता । पावति तेणादोसो विवक्खया कारगं जं च ॥४१६२॥ एग चेव य वत्यु इत्यादि । एकमेव वस्तु परिणामवशान्ना[ना]कार[क]तां प्रतिपद्यते, विवक्षाप्रापिततद्धमत्वात्-धनुर्विध्यति, धनुषा विध्यति, धनुषो विध्यतीति धनुषः कर्तृत्वम् , करणत्वम् , अपादानत्वं चाविरुद्धं लोके । “विवक्षातः कारकाणि भवन्ति" [ ] इति ॥४१६२॥ यथा च धनुरादिषु लोकप्रसिद्धया नानाकारकत्वम् एवं कुम्भादिश्वपीति दर्शयन्नाहकुंभो वि सिज्जमाणो कत्ता कम्मं स एव करणं च । णाणाकारगमावं लभति जधेगो विवक्खाए ॥४१६३॥ कुंभो वि इत्यादि । कुम्भोऽपि 'सृज्यमानः कुलालेन का क्रियमाणत्वात् कर्मकुम्भं करोति कुम्भकारः। स च कुम्भः कर्मरूपः संस्तेनात्मन्य(ना) स्वयंभवनात् कुम्भो रयं त । २भत्र 'वि सिज्जमाणो' इत्येवं पदद्वयं मन्यमानः प्रस्तुतवृत्तिकारः 'अपि राज्यमामः इत्येवं व्याख्याति । मलधारी मूरिस्तु विसिज्जमाणो' इत्येवम् एकपदं मन्यमानः 'विशीयमाणः' इत्येवं व्याख्यातवान्-हे. वृ. मु. पृ. १३०३ गा."३४३४ २“तेन - भात्मना स्वयं भवने स्वतन्त्रत्वात्"-को० मु. ७० पृ०९१७ गा. ११८० ।
SR No.010604
Book TitleVisesavasyakabhasya Part 3
Original Sutra AuthorN/A
AuthorDalsukh Malvania, Bechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy