________________
जध वा स्वन्तरतो इत्यादि। यदा रूपपर्यायः स्यामता, तस्याः विगमे रूपान्तरं रक्ततोत्पद्यते, यस्मिन्नेवंविधे विगमोत्पादेऽपि न सर्वथा विगमः, सर्वथोत्पादि(दै)रन्वयत्वे भावप्रसङ्गात् पूर्ववद्भावना । किन्तु रूपसामान्यं सर्वदा अनया(पा)यि नित्यमवतिष्ठते, तच्चाकृतं पर्यायान्तरविगमोत्पादाम्यां कृतमिति पर्यायपक्षेऽपि सामायिकस्य कृताकृतत्वम्-परपर्यायतो वा तेन पररूपेणाभावादकृतत्वम् , स्वपर्यायेण कृतत्वमिति ॥४१०५॥
एवं रूपपर्याय सामान्य-विशेषाभ्यामुपन्यस्य परपर्यायेण च दार्टान्तिकपर्याय निगमयति
तध परिणामतरतो वयविभवे वि परिणामसामण्णं । णिच्चं कताकतमतो सामइयं परगुणातो वा ॥४१०६।।
तध परिणामतरतो इत्यादि । सामायिकपरिणामसामान्यस्य सम्यक्त्वादि[:] चतुर्धा विशेषः । एकैकस्य चाभेदस्य संक्लेश-विशुद्धिभ्यां प्रतिसमयमुत्कर्षाऽपकर्षविशेषादनन्तपरिणामत्वम् । तस्यानेकधा 'व्ययविभवेऽपि' व्ययो विगमः, विभवः-विविधभवनम्-उत्पादः, तस्मिन् व्ययविभवेऽपि सामायिकपरिणामसामान्यमवशिष्ठ(ष्य)ते, 'नित्यम्'-यावज्जीवम् साधुत्वव्यपदेशात् । एवं सामायिकं कृताकृतम् । परगुणादा परपर्यायादुतवद्भावना ॥४१०६॥
अथवाऽन्यथापि कृताकृतत्वमुच्यतेदव्वातिचतुक्कं वा पडुच्च कतमकतमधव सामइयं । एगपुरिसादितो कतमकतं णाणाणरादीहि ॥४१०७॥
दव्वातिचतुक्कं वा । द्रव्य-क्षेत्र-काल-भावान् वा प्रतीत्य कृताकृतम् । तत्र द्रव्यतः, एवं क्षेत्र-काल-भावैः पूर्ववर्णितवत् । एवं मूलगाथायां कृताकृतमिति द्वारं व्याख्यातम् ॥४१०७॥
अथ केन कृतम् ! इति द्वारमुच्यतेकेण [२७०-५०] कतं ति य ववहारतो जिणिन्देण गणधरेहि च । तस्सामिणा तु णिच्छयणयस्स तत्तो जतो णणं ॥४१०८॥ सकारादिरपि श्यामलाब्द:-"कृष्णे तु स्याम-श्यामलौ"-शब्दरत्ना० षष्ठकाण्ड ग्लो० १८ ।