________________
८०३
नि० ७२४]
सामायिके करणद्वारम् । उभय जहणं समओ इत्यादि । वैक्रियस्य संघात-परिशाटकालो जघन्यः समय एकः । स पुनरौदारिकस्य द्विसमयविक्रियागतस्यानन्तरमायुःक्षयाद् मृतस्य प्रथमसमये संघाते द्वितीये उभयमिति जघन्य एकः समयः, परमुत्कृष्टमुभयस्यावस्थानमिति नपुंसकसम्बन्धः। संघातः(त)परिशाटस्योत्कृष्टः कालः संघातसमयेन हीनानि त्रयस्त्रिंशत् सागरोपमाणि । अतरः सागरः, अतर इवातरं सागरोपममुच्यते ॥४०६१॥
अथ वैक्रियसंघातस्यान्तरम्संघातंतरसमयो समय विउन्वित मतस्स ततियम्मि । सो दिवि संघातयतो ततिए व मतस्स ततियम्मि ॥४०६२॥
संघातंतरसमयो इत्यादि । समयविकुर्वितमृतस्य विग्रहगत्या दिवि देवलोके विग्रहसमयमेकमनाहारस्यानन्तरं समये पूर्वस्मात् तृतीये शरीरं(र)संघातं कुर्वतः एको विग्रहसमयोऽन्तरमिति जघन्यमन्तरम् । अथवा औदारिकस्यैव द्विसमयविकुवितस्य तृतीये समये मृतस्य तस्मिन्नेव वा विग्रहेण दिवि वैक्रिय संघात(त)यतस्तृतीय एकः संघात-परिशाटसमयोऽन्तरं जघन्यमुच्यते ॥४०६२॥
उभयस्स चिर विउन्वित मतस्स देवे सविग्गहगतस्स । साडस्संतमुहुत्तं तिण्ह वि तरुकालमुक्कोसं ॥४०६३॥ दारं ॥ आहारोभयकालो दुविधो अन्तरतियं जहण्णं च । अंतोमुहुत्तमुक्कोसमद्धपरियट्टेदेसूर्ण ॥४०६४॥
उभयस्स इत्यादि । आहारो० इत्यादि । चिरविकुर्वितमृतस्य वैक्रियसर्वशाटं देवेष्वविग्रहगतस्य प्रथमसमये वैक्रियसंघातं च कृत्वा तस्मिन्नेव कृत्वा संघातपरिशाटारम्भ इति संघातसमयोऽन्तरं जघन्यम् । अथ शाटस्यान्तरं जघन्यम् अन्तर्मुहूर्त्तम् औदारिकशरीरी वैक्रियं कृत्वोपरतवैक्रियः सर्वशाटानन्तरमन्तर्मुहूत्त स्थित्वा पुनक्रियमन्तर्मुहूतन परिसमाप्य सर्वशाट इति तत्राहारकस्य संघातं(त)कालः शाट
१ अत्र मूलगाथायाम् 'उभय जहणं समो' इत्येवं पाठः। अत्र 'उभय' पदेन 'उभयम्' इत्येवं नपुंसकलिङ्गि प्रथमान्तं रूपं प्राह्यम् । 'उभ्यम्' इति पदेन संघात-परिशाटोभयं ग्राह्यम् । अत एव अत्र बृत्तिकारो निरूपितवान् “उभयम्' इति जघन्य एक: समयः, परम् उत्कृष्टम् उभयस्य अवस्थानम् इति नपुंसकसंबन्धः"-नपुंसकलिङ्गिरूपसम्बन्धः। अत्र हे. मु. वृ० पृ. १२७१, १३३५ गाथाया वृत्तिस्तुलनीया । २ व्विय म को। ३ वेसु वि को हे। ति को हे त । ५ 'दृमूणं को हे।
१०१