________________
७४६
विशेषावश्यकभाष्ये ।
[ नि० ६७६
च - एकस्मिन्नुपयोगकाले द्वितीयं नास्त्येव, तदानीमनुपलभ्यमानत्वात्, खरविषाणवत् । अयमनैकान्तिको हेतुः-सम्यग्दर्शन -ज्ञान- चारित्रत्रयसम्पन्नः साधुरुच्यते, स च छद्मस्थत्वादेकस्मिन्नुपयुज्यते तत् न ( ते न ) त्रिष्वपि । ततश्चैकोपयोगकाले इतरयोरनुपलभ्यमानत्वमस्ति । अथ च तस्मिन् साधौ ते द्वे अपि विद्येते, तस्य यावज्जीवावधिप्रतिज्ञापूरणादविकल साधुत्वानुज्ञानादुभयोरावयोरस्यार्थस्य सिद्धत्वादनैकान्तिकः, असाधुत्वं वा विकलत्वात् साधोः प्राप्नोति, अनिष्टं च तदिति ॥ ३७२६ ॥
किञ्च, अन्यत्—
ठितिकालविसंवातो णाणाणं ण वि य ते चतुण्णाणी । एवं सति छतुमत्थो अत्थि ण य तिदंसणी समए ॥ ३७२७॥
ठितिकालविसंवातो इत्यादि । एकस्मिन्नुपयुक्तस्य यदि अत्य (न्या)न्तः, ते' वि (पि) ततो ज्ञानानां चतुर्णां षट्षष्टिसागरोपमस्थितिकाल उक्तः, तस्यासंभवात् स्थितिकालविसंवादः प्राप्त इत्यागमविरोधः । अन्यच्च "एकादीनि भाज्यानि युगपदेकस्मिन्ना चतुर्भ्यः (तत्त्वार्थ ० १ ३१ ) इति एकज्ञान - द्विज्ञान - वि (त्रि - ज्ञान-चतुर्ज्ञानानां जीवानां प्रज्ञापना कृता । एवं छद्मस्थश्चतुर्ज्ञानी कश्चिदपि न प्राप्नोति, एकज्ञानोपयोगका ले शेषज्ञानाभावाभ्युपगमात् । न च छद्मस्थस्त्रिदर्शनी कश्चित् प्राप्नोति । एवं च पूर्व एव हेतुस्तदानीमनुपलभ्यमानत्वादित्यनैकान्तिक इति समर्थितं भवति ॥ ३७२७॥
अथासौ युगपदज्ञानदर्शनवादी आगमवाक्येन स्वपक्षसाधनमाविष्करोति
आह भणितं गणु सुते "केवलिणो केवलोवयोगेणं । पढम" त्ति तेण गम्मति सतोवयोगोभयं तेसिं ॥ ३७२८ ॥
आह भणितमित्यादि । ननु श्रुतैकदेशे वचनमस्ति - "केवलिनेः केवलोपयोगेन प्रथमाः नाप्रथमा::" [ ] इति । यो येन भावेन पूर्वे तथा नासीदिदानीं च जातः स
१ व्याख्याप्रज्ञप्तिसूत्रे अष्टादशशतकस्य प्रथमोद्देशके मूलपाठ एवम् - " केवलनाणी जीवे मस्से सिद्धे ये एगत्त- पुहुत्तेण पढमा नो अपढमा ” - मुद्रित पृ०७३२ । श्रीमलधारिहे वृत्तौ तु अयं पाठः एवं निर्दिष्टः - "केवली ण भंते ! केवलोवओगेण किं पढमा अपढमा ? गोयमा ! पढमा मोअपदमा” – पृ० १२०४, ३१०८ गाथाया वृत्तौ । २ अस्य लक्षणस्य इयं गाथा ब्याख्या - प्रज्ञप्तिसूत्रे ( पृ०७३२) एवं विद्यते - "इमा लक्खणगाहा - जो जेण पत्तपुव्वो भावो सो तेण अपढमभो होइ । सेसेस होइ पढमो अत्तपुब्वेसु भावेसु " ॥ वृत्तिकार श्री अभयदेवसूरिणा एषा गाथा तत्र वृत्तौ व्याख्याताऽपि ।