________________
नि० ६७६ ] वस्तुद्वारम् ।
७२१ अतिसंश्लिष्टम् अथवा वि'शेषितं "शिष असर्वोपयोगे" [चौरादिकः] 'अष्टविध' इत्येवं विशेषितम् अथवा शेषकृतं शेषितं पूर्वनिर्जरया यन्(यद् न) क्षपितम्-शेषं वर्तितम्तत् शेषितम् इदानी क्षप्यत इति क्षयस्य शेषितम् ॥३६३४॥
णेरुत्ततो सितं धंतमस्स तवसा मलो व्ध लोहस्स । इति सिद्धस्सेय सतो सिद्धत्तं सिज्मणा समए ॥३६३५॥
णेरुत्ततो। तदेवप्रकारं सितं कर्म मातं यस्य स सिद्ध इति पृषोदरादिनिपातनात् नैरुक्तविधिना वा अक्षरसामान्यादपि । तत् केन ध्मातम्-केन दग्धमिति ? आह-तपसा मनोग्निना लोहमलवत् इति सिद्धः सः। सिद्धत्तं उवजायति [३६२७] त्ति । एवं कर्मदहनानन्तरं सिद्धस्यैव सत• सिद्धत्व] मुपजायते, नासिद्धस्य । "भव्यासिद्धो न सिध्यति" [ ]इति वचनात् सिद्ध एव सिध्यति ॥३६३५॥
अथ कथमुच्यते सिद्धत्वमुपजायत इति ? तज्जन्मना कृतकत्वात् सिद्धस्य विनाशेनापि भवितव्यमिति। उच्यतेउवजायति त्ति ववहारदेसणमभावताणिसेधो वा । पज्जायंतरविगमे तप्पजायतरं सिद्धो ॥३६३६॥
उवनायति ति ववहारदेसणमित्यादि । इह जीवस्य सिद्धत्वं स्वाभाविको धर्मः-कर्मभिरावृतत्वात्-तिरोभूत आसीत् । तेषां कर्मणां पुरुषकारेणापगमः कृत इति कर्मापगमः-कर्मनिर्जरणम्-जोवकर्मविश्लेषः क्रियते । तदावरणविगमानन्तरं स्वरूपावस्थानं सिद्धत्वं प्रकटीभवति केवलम् , नापूर्वमुपजायते, तथापि तु लौकिकवाचोयुक्त्या व्यवहारादेशनयात् 'उपजायते' इत्युच्यते, न निश्चयनयात् । व्यवहारवचनं चात्र परमार्थवेलायां सार्थकम् अभावनिषेधार्थम् ।
कैश्चिदुक्तम्-"प्रदीपनिर्वाणवन्निर्वाणप्राप्तिः सिद्धत्वमभावीभवनम्" [ ] तन्निवारणार्थम्-सिद्धत्वमुपजायते-प्रकटीभवति. ज्ञान-शम-वीर्य-दर्शन-सुखतत्त्वात् , सावस्थानात् , भव्यत्वपर्यायविगमानन्तरं सिद्धत्वपर्यायान्तरप्रतिलाभा(भात्)। सिद्धः सत्पदार्थः, एकपदनामसिद्धेः, सत्प्रतिषेधात् , सतस्तथौपम्यात् । यत्(यः) सर्वथा ननासः (अनाशः) सत्प्रतिपक्षश्च यदभावः सः पदार्थविषयः सिद्धशब्दः, शुद्धैकनामपदत्वात् ,
१ मूलगाथायाम् 'जं वा वि सेसितं' इत्येवं चत्वारि पदामि । “विशेषित'भर्थदर्शनाय 'जं वा विसेसितं' इत्येवं त्रीणि एव पदानि बोध्यानि । २ 'रुत्तिओ को, रुत्तियं हेत। ३ जीवस्स को।