SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ दशकण्ठवधम् किनिष्ठाः के कियन्तस्ते हेतुना केन चानघ । । आधयस्तेऽवलुम्पन्ति मनो गेहमिवाखवः ॥२३॥ फिमिति । श्रावय कि निष्ठा के चेति स्वरूपप्रश्न । केन हेतुना चेति निमित्तप्रश्न । ते कियन्त इति विभागप्रश्न ॥२३।। इति पृष्टो मुनीन्द्रेण समाश्वस्य च राघवः । यथावद् वक्त मारेभे लड्बते को हि सद्वचः ॥२४॥ इतीति । इति विशिष्य मुनीन्द्रेण भगवता विश्वामित्त्रेण । पृष्ट प्रणुन्न । समाश्वस्य समाश्वास प्राग्य। सता महात्मना, सद् उपादेय च वच । क प्रेक्षावान् । लवते अतिक्रामति ॥२४॥ सदाचारपरो भूत्वा भ्रमित्वा तीर्थभूष्वहम् । भोगनीरसया बुद्धया महर्षे ! मृष्टवानिदम् ॥२५॥ सदाचारेति । स्पष्टम् ॥२॥ कि नामेद बत सुख येय ससारसगतिः । जायन्ते मृतये यत्र म्रियन्ते जातये जनाः ॥२६॥ किमिति । "मृतिबीज भवेज्जन्म, जन्मबीज भवेन्मृति" इति वचना दित्यर्थ ॥२६॥ अयःशङ्क, समा सर्वे परस्परमसगिनः । श्लिष्यन्ते केवल भावा मनःकल्पनया स्वया ॥२७॥ अय इति । सूच्यादिवन् मिथ समन्धशून्या अपि दृश्या भावा अह मेतेषा मम चैते इति क्रियाकारकभावेन सबध्यन्ते-इत्यर्थ ॥२७॥ मनसा जगदाभोगि मनोऽसदिव दृश्यते । मृगतृष्णाम्भसा कष्ट मृगा इव निमोहिताः ॥२८॥ मनसेति । जगद् मनसा आभोगि विषयानुबन्धि । तच्च मन अत्यन्त
SR No.010592
Book TitleDashkanthvadham
Original Sutra AuthorN/A
AuthorDurgaprasad Dvivedi
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages166
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy