SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ १४० दशकएठवधम् भगवन्निति । अत्र वन्ध्यातनूजेनेत्यादयो दृष्टान्ता पदार्थवाक्यार्थोभयासभवप्रदशनायोन्यन्ते । सूनृतवाक्- सूनृता प्रिया सत्या च वाग् यस्य स । प्रामाणिकमूर्धन्य । व्याहृत व्याहरत् ॥४॥ मनो दृश्यमय दोष तनोतीम क्षयात्मकम् । असदेव सदाकार स्वप्नः स्वप्नान्तर यथा ॥४६॥ मनो दृश्यमिति । स्पष्टार्थ ॥४॥ स्फुरति गच्छति वल्गति याचति ___ भ्रमति मञ्जति सहरति स्वयम् । अपरता परतामपि केवला श्रयति चञ्चलशक्तिया मनः ॥५०॥ ॥ इति प्रकरणार्थकल्पनम् ॥ म्फुरतीति । मनश्चञ्चलशक्तितया यत् श्रयति तत्रैव स्फुरतीत्यादिभ्रमो विभाव्यते । अपरता सासारिकदशाप्रयुक्तमपकर्षम् । परता कैवल्यलक्षणोत्कर्षम् । श्रयति उपयाति ॥५०॥ ॥ इति प्रकरणार्थकल्पनम् ।। महाप्रलयविस्फूर्ती दृश्येऽसत्तामुपागते । अजोऽव्ययो भासमानः परमात्माऽनशिष्यते ॥५१॥ महाप्रलयेति । महाप्रलयस्य सकल्पप्रलयस्य विस्फूर्ति विस्फुरण यत्र । अर्थाजगति । असत्ता सूक्ष्मीभावादर्थक्रियाऽसमर्थताम् । परमात्मा महेश्वर ॥५१॥ यः पुमान् साख्यदृष्टीना ब्रह्म वेदान्तपादिनाम् । वैज्ञानिकाना विज्ञान शून्य शून्य विदामपि ॥५२॥ यः पुमानिति । सर्ववादिनामपि तत्तद्बुद्धिकल्पितैविशेष स एव सिद्धान्तविषय - इति सर्वाधिष्ठाने तस्मिन्न कोऽपि विवाद । अतएवेदमुच्यते- सज्ञासु केवलमय विदुषा विवाद ' इति ॥५२॥
SR No.010592
Book TitleDashkanthvadham
Original Sutra AuthorN/A
AuthorDurgaprasad Dvivedi
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages166
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy