________________
तृतीयो गुच्छक
१०७ तेनामर्तेति । अमूर्तस्य तत एव व्यवहारदशाया कल्पितस्य जात्याकृति व्यक्त्याख्यपदार्थातिक्रान्तस्य चिद्वस्तुन सगराहित्यात् प्रतिपादित साधु सघटत इति तात्पर्यम् ॥६॥
॥ इति देवनिराकरणसमर्थनम् ।। भगवन् । यल्लोकेषु प्रतिष्ठित तद् दैव नाम फिमिति राघवेण पृष्टो वसिष्ठो व्याख्यत-अङ्ग ! अबन्ध्येन पौरुषेण सपादिता शुभाशुभार्थसपत्तिः इष्टानिष्टवस्तूपपत्तिा, अनुष्ठितस्य कर्मणः फलप्राप्ताविदमित्थ स्थितमित्युक्तिः एव मम मनिर्निश्चयश्चेत्युक्तिः इदमस्य बोधकमित्यनाश्वासनपाचोयुक्तिर्या देवमित्याहुः । भगवन् ! यत्खलु पूर्वकर्मोपार्जित जगति दैव दैनमिति व्यपदिश्यते तदेकान्ततो भाता किमपमृश्यत इति तेन पृष्टः स पुनराख्यत-अङ्ग ! साधूच्यते-॥६१॥
भगवन्निति । प्राणिनस्तेषामावासा इति द्विविधो लोकपदार्थो द्रष्टव्य ।
तत्र
"अधिष्ठान तथा कर्ता करण च पृथग्विधम् ।
विविधाश्च पृथक् चेष्टा देव चैवात्र पञ्चमम् ॥” गीता इत्यादौ परसाचिव्येन दत्तहस्तावलम्ब दैवारय वस्तुव्यक्तमेव ॥६॥
या मनोवासना पूर्व जजागार निरर्गला । सैवेयं कर्मभावेन लोके परिणति गता ॥६२॥ यद्वासनो हि पुरुषस्तत्कर्तेष प्रजायते । नान्यभावोऽन्यकर्मा स्याद् दैव कर्म पुराकृतम् ।।६३॥ इत्थ कर्मस्थकर्माणि कर्म प्रौढा स्ववासना । वासना मनसो नान्या मनो हि पुरुषः स्मृतः ॥६४॥ मनश्चित्त पासना च कर्म दैव च निश्चयः । राम ! दुनिश्चयस्यैताः सज्ञाः सद्भिरुदाहृताः ॥६॥